वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 88, कुल 296 में से
संदर्भ में पढ़ें52 वास्तुमण्डनम्
प्रासादप्रतिमालिङ्गं गृहं राजगृहं२५४ तथा२५५।
वापीकूपादिभूखातं मिनुयान्मध्यमेन तु ॥ १८६ ॥
यन्त्रशस्त्रासनं वाद्यं वापी२५५कूपेन भाजनम् ।
छत्रं शय्यारथादीनि कन्यसेन करेण हि ॥ १८७ ॥
एकविंशाङ्गुलोऽरत्निरनिर्हस्त एव च।
चतुर्हस्तो धनुर्दण्डो वंशः पञ्चकरः स्मृतः ॥ १८८ ॥
२५६गृहादिकर्म२५७प्रारम्भे हस्तस्य सुधृतस्य तु।
पतनं न शुभं तस्मा२५८त्प्रयतेतास्य धारणे ॥ १८९ ॥
इति कम्बिकालक्षणम्।
करे करगुणे हस्ता अङ्गलघ्ने करेऽङ्गुलाः।
अङ्गुलेष्वङ्गलघ्नेषु फलं लब्धं २५९जिनैर्हृते ॥ १९० ॥
व्यासात्रिगुणितो२६० वृत्तः परिधिः षष्ठभागयुक्।
व्यासपादे परिधिना गुणिते वृत्तजं फलम् ॥ १९१ ॥
२५४. गृहवथा in A
२५५. कूपेभ in BCDE
२५६. ग्रहादि in A
२५७. -मारम्भे in A
२५८. प्रयतेत्तस्य in DE
२५९. जनैहृते in A
२६०. E writes marginal note व्यासस्य षड्भागः ब्यासैः । in A