वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 86, कुल 296 में से
संदर्भ में पढ़ें50 वास्तुमण्डनम्
रुद्रोऽनिलो विश्वकर्मा वह्निर्ब्रह्मायमोऽम्बुपः ।
धनदो विष्णुरित्यादौ पुष्पेष्वग्रे सुरा नव ॥ १७७ ॥
उच्चाटव्याधि२४८सन्तापा वह्निः प्रजाक्षयो मृतिः ।
जलधान्यक्षयौ मोहः फलं तत्पीडने क्रमात् ॥ १७८ ॥
केवलान्यत्र२४९ पर्वाणि २५०चत्वार्यर्काङ्गुलै२५१र्भजेत् ।
मध्यातपञ्चाष्ट सूर्यांशं द्वित्रिवेदांशकैः पुनः ॥ १७९ ॥
मूले पुष्पेषु रेखासु प्रान्ते च त्रिदशाः करे ॥
त्रयोविंशतिराद्यार्धे स धार्यः पुष्पकान्तरे ॥ १८० ॥
२५२ईशोऽनिलो विश्वकर्मा वह्नि ब्रह्मा रविः क्रमात् ।
रुद्रो यमो विरूपाक्षो वसवो दिग्गजाम्बुपाः ॥ १८१ ॥
२५३स्कन्द इच्छाक्रियाज्ञानी धनेशश्चन्द्रमाजयः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ १८२ ॥
एते देवाः सदैवास्यां कम्बिकायां सुनिश्चलाः ।
आगमैर्वेदमन्त्रैश्च पूज्या सा परमाकला ॥ १८३ ॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
इयं हि रुद्रगायत्रीपवित्रीकरणं परम् ।
चतुर्विंशत्यङ्गुलेषु वर्णनेतान् क्रमान्न्यसेत् ॥ १८४ ॥
खेटकं नगरं ग्रामं क्रोशगव्यूतियोजनम् ।
क्षेत्रादिभूमिभागांश्च ज्येष्ठहस्तेन मापयेत् ॥ १८५ ॥
२४८. संतापो in A
२४९. वर्षाणि in A
२५०. चत्वार्थकां
२५१. भवेत् in DE
२५२. similar verse in AP ch 41. V16
२५३. स्कन्दरो in B