वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 80, कुल 296 में से
संदर्भ में पढ़ें44 वास्तुमण्डनम्
सूत्र२२७च्छेदेन २२८सिद्धै स्यादृष्टीले विच्युते भयम् ।
कीलकेऽवाङ्मुखे रोगस्ततो यत्नं समाचरेत् ॥ १५१ ॥
समारभेत कर्माणि २२९अष्टसूत्रविधिक्रमात् ।
विद्यादृष्टिकरं मौजं कार्पासमवलम्बकम् ॥ १५२ ॥
काष्ठं च साधकं लेख्यमष्टसूत्राण्यनुक्रमात् ॥ १५३ ॥
इति कीलकारोपणम् ॥
नागस्य प्रथमे घाते पुच्छे २३०पृष्ठे मुखे भयम् ।
वामकुक्षौ भवेत्सौख्यं तस्मात्कुक्षिरिहोच्यते ॥ १५४ ॥
सिंहादि त्रित्रिगे भानौ सृष्ट्या नागमुखं दिशि ।
खातं वायौ महेशेऽग्नौ नैर्ऋत्ये शोभनं क्रमात् ॥ १५५ ॥
इति नागवास्तुविधिः ।
शल्यज्ञाने फणेचक्रमष्टाविंशतिकोष्ठकम् ।
तिर्यक् २३१पञ्चोर्ध्वगारेखाः कर्तव्या २३२अष्टसन्मिताः ॥ १५६ ॥
द्वारशाखामघायाम्यं द्वारमध्ये च कृत्तिका ।
पृष्ठपंक्तौ लिखे२३३त्स्वातेः सप्तधिष्ण्यान्यनुक्रमात् ॥ १५७ ॥
चित्रापुनर्वसू रौद्रं मृगशीर्षं धनिष्ठिका ।
२३४श्रवणं चाभिजित् पंक्तौ द्वितीयायामतो लिखेत् ॥ १५८ ॥
२२७. च्छेदोन in A
२२८. सिद्धयै in A, सिध्य in D, सिद्धिं in E
२२९. This अष्टसूत्रविधिः is mentioned in AP ch 55 V15-17
२३०. पृष्ठमुखे in B
२३१ यंत्रोर्द्धग in A पंचोर्द्धणा in B
२३२. चाष्ट- in E
२३३. त्वातः in E
२३४. ष्ट्रवनं in A