वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 76, कुल 296 में से
संदर्भ में पढ़ें40 वास्तुमण्डनम्
द्विजांस्तु पूजयेद्भक्त्या ये चान्ये गृहमागताः ।
एतद्वास्तूपशमनं कृत्वा कर्म समाचरेत् ॥ १३५ ॥
प्रासादभवनोद्यानप्रारम्भपरिवर्त्तने ।
२१५पुरवेश्मप्रवेशे च सर्वदोषोपशान्तये ॥ १३६ ॥
अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः ।
गृहे वायतने २१६कुर्यान्न स दुःखमवा२१६प्नुयात् ॥ १३७ ॥
न च व्याधिभयं तस्य न च वन्धुधनक्षयः ।
जीवेद्वर्षशतं स्वर्गे कल्पमेकं च तिष्ठति ॥ १३८ ॥
इति वास्तूत्पत्तिविन्यासपूजनविधिः ॥
अथ मर्मवास्तुः-
युगास्रे वा(ऽ)यते क्षेत्रे चतुःषष्टिविभाजिते ।
मध्ये रेखा स्मृता२१७स्तिस्रो वंशापूर्वापरायताः ॥ १३९ ॥
याम्योत्तरायतास्तिस्र उपवंशाः २१८प्रभिन्नगाः ।
कर्णात्कर्णगतं सूत्रं शिरासंज्ञमिह न्यसेत् ॥ १४० ॥
तत्पार्श्वयोस्तथा २१९रेखा भागभागान्तरे इह ।
तत्राष्टसूत्रैः पद्मानि षड्भिर्वज्राणि द्वादश ॥ १४१ ॥
चतुष्कोणेषु शूलानि विकर्णोर्ध्वे तु लाङ्गलम् ।
मर्माणि वंशसंपाता महामर्माम्बुजादिकम् ॥ १४२ ॥
२१५. Ms A omits VI36cd and V137ab
२१६. कुर्यान् रदुरकमवा- in A
२१७. स्तिस्तो in A
२१८. प्रतिन्नगाः in A
२१९. रेखो in AD देखे in CE