वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 72, कुल 296 में से
संदर्भ में पढ़ें36 वास्तुमण्डनम्
१९४अग्निः पूषाऽथ वितथो १९५गृहक्षतयमौ तथा ।
गन्धर्वो भृङ्गराजश्च मृग१९६इत्यष्ट दक्षिणे ॥ ११९ ॥
पितरोद्वास्थ सुग्रीवपुष्पदन्तजलाधिपाः ।
असुरः शोषयक्ष्माणौ इत्यष्टौ पश्चिमे यजेत् ॥ १२० ॥
१९७रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च ।
शैलोऽदिति१९८र्दितिश्चेति देवानुत्तरतोऽर्चयेत् ॥ १२१ ॥
आपापवत्सावीशाने मध्यकोणे १९९प्रपूजयेत् ।
सावित्रः सविताग्नेये इन्द्र२००श्चेन्द्रजयोऽन्यतः ॥ १२२ ॥
२०१रुद्रं च रुद्रराजं च२०२ वायव्ये द्वौ समर्चयेन् ।
अर्यमा पूर्वदिग्भागे २०३विवस्वान् इह दक्षिणे ॥ १२३ ॥
मित्रस्तु पश्चिमे तद्वदुत्तरे २०४पृथिवीधरः ।
ब्रह्मागर्भे सुरा एवं संपूज्या सर्ववास्तुषु ॥ १२४ ॥
ईशाने चरकीं बाह्ये पिलिपिच्छां तु पूर्वतः ।
विदारीमग्निकोणे च२०५ जम्भां याम्यदिगाश्रितान् ॥ १२५ ॥
१९४. अग्र in A
१९५. ग्रह in BCD
१९६. इष्टत्ये in C
१९७. A omits V 121
१९८. दिश्चोति in B दिश्चेति in C
१९९. प्रभुजयेत् in A
२००. श्चेन्द्रयोजन्तः in A
२०१. रुद्रांश्च in DE
२०२. वायव्यो in A, वायवे in e
२०३. विविस्वान् in B
२०४. पृथ्वीधरः in A
२०५. जृभं in C, जृभां in E