वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 70, कुल 296 में से
संदर्भ में पढ़ें34 वास्तुमण्डनम्
भूमीं १८५परीक्ष्य तां पञ्चगव्यैरा१८६सेचयेत्सुधीः ।
पश्चाद्वास्तुं लिखेद्दन्तहेमरौप्यफलादिभिः ॥ १११ ॥
काष्ठांगारनखैः शस्त्रैर्लिखितो भयकारकः ॥ ११२ ॥
तथा चापराजिते ॥
ततो १८७वास्तुः सुसंपूज्य१८८स्तत्र १८९क्षेत्रे सुकल्पिते ।
पुष्पाक्षतैः समालिख्य निलयादिप्रमाणतः ॥ ११३ ॥
चतुःषष्टि पदे वास्तौ मध्ये ब्रह्मा युगांशकः ।
अर्यमाद्याश्चतुर्भागा मध्यकोणे द्विभागिकाः ॥ ११४ ॥
बाह्यकोणेषु१९० सार्द्धांशा शेषाः एकपदा सुराः ।
एकाशीतिपदे वास्तौ ब्रह्मा मध्ये नवांशकैः ॥ ११५ ॥
षट्पदा अर्यमाद्याः स्युद्वर्चंशः कोणेषु मध्यगाः ।
सर्वेऽपि भागिका बाह्ये १९१देवा अथ शतांशके ॥ ११६ ॥
ब्रह्मा तु षोडशपदो वशंशा अर्यमादयः ।
१९२बाह्यकोणेषु सार्धांशा शेषाः स्युः पूर्ववास्तुवत् ॥ ११७ ॥
१९३इशश्चैव तु पर्जन्यो जयन्तः शक्रभास्करौ ।
सत्यो भृशोऽम्बरं चेति देवान्पूर्वे प्रपूजयेत् ॥ ११८ ॥
१८५. परीक्ष्यती in A
१८६. सौच्य बुद्धिमान् in B सोच्य बुद्धिमान् in CDE
१८७. वास्तुस्तु संपूज्य in A
१८८. त्रेत्रे in A
१८९. Ms E given note गृहादि
१९०. वार्द्धांशाः in e, चार्द्धांयाः in BDE
१९१. दैवा in B.C. दैव in DE
१९२. वारुणी in A
१९३. A writes इशान and omits तु