वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 68, कुल 296 में से
संदर्भ में पढ़ें32 वास्तुमण्डनम्
महेन्द्रादित्यसत्याश्च वृष आकाशमेव ते।
वह्निर्जानुनि पूषाद्याः ससपादतलोस्थिताः ॥ १०३ ॥
पूषाऽथ वितथश्चैव १७४गृहक्षतो यमस्तथा।
गन्धर्वो भृङ्गराजश्च मृगसतसुरा इति ॥ १०४ ॥
पादयोः पितरस्तस्मात्सत्१७५पादतलास्थिताः ।
दौवारिकोऽथसुग्रीवपुष्पदन्तो १७६जलाधिपः ॥ १०५ ॥
असुरः शोषयक्ष्माणौ रोगो जानुनि संस्थितः ।
१७७नागो मुख्यश्च भल्लाट सोमः शैलश्च बाहुगाः ॥ १०६ ॥
अदितिः स्कन्धदेशेऽस्य वामकर्णे दितिः स्थिताः ।
द्वात्रिंशद्वाह्यगादेवा नाभिपुष्ठे स्थितो विधिः ॥ १०७ ॥
अर्यमा दक्षिणे वामे स्तने तु १७८पृथिवीधरः ।
विवस्वानथ १७९मित्रश्च दक्षवामोरुगावुभौ ॥ १०८ ॥
आपःकण्ठे स्थितो १८०वास्तोरपवत्सो हृदि स्थितः ।
सावित्रः सविता तद्वत् करं दक्षिणमाश्रितौ ॥ १०९ ॥
इन्द्र इन्द्र१८१जयो १८२मेण्ढ्रे १८३रुद्रो वामेकरेऽस्य च ।
रुद्र१८४दासोऽपि तत्रैव इति देवमयं वपुः ॥ ११० ॥
१७४. गृहक्षा यमः in B
१७५. पादलता in A
१७६. जनाधिपत् in A
१७७. नागा in A
१७८. पृथवी in A
१७९. मित्रस्य in A
१८०. वास्तोपेरोवत्स्र्थ्यैहर्यदिगं in C
१८१. जयो in A
१८२. मेद्रे in BCDE
१८३. रुड्ये in A
१८४. दाजो in C