वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 54, कुल 296 में से
संदर्भ में पढ़ें18 वास्तुमण्डनम्
<sup>८७</sup>शकुने भवनारम्भे प्रथमं <sup>८८</sup>ध्रुवजः शुभः ।
<sup>८९</sup>तयोर्याम्ये पुनः <sup>९०</sup>सौम्ये शान्तः <sup>९१</sup>स्वस्थानसंस्थितः ॥ ५४ ॥
स्वानस्य दक्षिणे चेष्टा शान्ताः सर्वार्थकारिणी ।
वामे चेष्टा <sup>९२</sup>न विहिता<sup>९३</sup> दुष्टं <sup>९४</sup>जृम्भांगधूननम् ॥ ५५ ॥
शुभस्थाने गृहारम्भे मधुरं रौति वायसः ।
स्थाने तस्मिन्भवेद्द्रव्यं शल्यं दीप्ते खरस्वरे ॥ ५६ ॥
प्रधानं शकुने <sup>९५</sup>दुर्गं तद्बले <sup>९६</sup>नगरं गृहम् ।
वाणिज्यकृषिसेवादिकर्म सिध्यति निश्चितम् ॥ ५७ ॥
<sup>९७</sup>दिशारात्र्यन्त यामार्धदिवार्धप्रहरावधिः ।
स्यात्पूर्वज्ज्वलितान्याश्च भवन्त्येवं रवेर्वशात् ॥ ५८ ॥
<sup>९८</sup>दिशायामष्टकेनाष्टौ दीप्ताः शान्ता भवन्ति ताः ।
यस्यां सूर्योदयः सा दिग्ज्वलिता धूमिताग्रगाः ॥ ५९ ॥
अङ्गार<sup>९९</sup> भस्मवात्यौः चतस्रोऽन्याः शुभा<sup>१००</sup>वहाः ।
वामस्वरोगतिस्तारा शान्ते <sup>१०१</sup>कार्ये प्रशस्यते ॥ ६० ॥
दीप्ते तु दक्षिणः शब्दो <sup>१०२</sup>गतिर्वामा प्रवेशने ।
नकुलाजमयूराणां <sup>१०३</sup>चाषखं जनयोरपि ॥ ६१ ॥
८७. शकुनो - in B, C, D, E
८८. ध्रुवजनः - in C
८९. तत- in A
९०. शुम्ये- in A
९१. संस्थान - in C
९२. वामा - in B C D E
९३. चमेहिका- in A, वभिहिका - in B, C
९४. जुंजांग - in A
९५. दुर्गा - in A, B
९६. न गृहं करं - in C
९७. दिशोशत्र्यं च मार्यार्द्धा - in A
९८. दिशो - in A
९९. भस्मत्यौ - in A
१००. मृताः - in A
१०१. काये - in A
१०२. तति - in A
१०३. चाखसं - in A