वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 52, कुल 296 में से
संदर्भ में पढ़ें16 वास्तुमण्डनम्
पूर्वापरमुखं सूर्ये कर्कसिंहमृगे घटे।
७७तुलालिवृषमेषस्थे कुर्याद्याम्योत्तरं गृहम् ॥ ४८ ॥
७८मतिभ्रंशेन यः कुर्यादन्यथा भवनादिकम्।
व्याधिशोकमवाप्नोति धननाशं ७९मृतिं पुनः ॥ ४९ ॥
वत्सः पूर्वा८०दिगः सृष्ट्या कन्यादित्रित्रिगे रवौ।
द्वारार्धं तन्मुखे मृत्युकरं ८१पार्श्वद्वये शुभम् ॥ ५० ॥
॥ इति ८२माससंक्रान्तिफलम् ॥
८३द्विस्वभावे स्थिरे लग्ने ८४शुभैर्युतिविलोकिते।
निर्माणं भवनस्याहुः शस्तं कर्म स्थितैः शुभैः ॥ ५१ ॥
त्रिषडायगतैः क्रूरैः शुभैः ८५केन्द्रत्रिकोणगैः।
शुभं गृहस्य निर्माणं क्रूरो मृत्युप्रदोऽष्टमः ॥ ५२ ॥
पञ्च८६ग्रहबले लग्ने प्रासादोद्वाहमन्दिरम्।
कुर्याच्छाकुनवीर्येण नान्यज्जालं विचिन्तयेत् ॥ ५३ ॥
७७. वास्तु तूपी वृषभः सर्पो वा २ marginal notes in E
७८. ६।७।८ - पू.
९।१०।११ - द
१२।१।२ - प
३।४।५ - उ these are marginal notes in E
७९. मृतं - in A
८०. दिन - in C
८१. याश्वद्वयै - in A
८२. माशक्रांतिवत्सफलम् - A
८३. द्विस्थवै २।३।५।६।८।९।११।१२ - - in A
८४. शुभेयुक्ते - in A
८५. १।४।७।१०
८६. गृहै - in A