वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 48, कुल 296 में से
संदर्भ में पढ़ें12 वास्तुमण्डनम्
श्रीवत्सः कलिकर्त्ता च नन्दीशः कालकर्णकः।
५५धर्मदिनं क्षयश्चैव विजयी दिवसाः क्रमात् ॥ ३४ ॥
इति दिनशुद्धिः ॥
गृहारम्भे तिथिर्नन्दा जया पूर्णा च शोभना।
भौमार्कवर्जिता वारा योगा ५६शोभननामकाः ॥ ३५ ॥
५७हस्तत्रयोत्तरा पुष्ये धनिष्ठा शतभे मृगे।
मैत्रे मूलेऽश्विनी पौष्णे ब्राह्मे प्रारम्भणं श्रिये ॥ ३६ ॥
सूर्यभान्मस्तके त्रीणि चत्वारि चाग्रपादयोः।
चत्वारि ५८पश्चात्पादयोः पुच्छे त्रीणि प्रदापयेत् ॥ ३७ ॥
वामे कुक्षौ तु चत्वारि पुनश्चत्वारि दक्षिणे।
५९पृष्ठे च त्रीणि ६०धिष्ण्यानि ६१नासिकायां द्वयं न्यसेत् ॥ ३८ ॥
६२मस्तके स्वामिनो मृत्यु६३रुद्धसं ६४चाग्रपादयोः।
स्थिरं स्यात् पश्चिमे पादे पुच्छे क्लेशनिवेशने ॥ ३९ ॥
कुक्षौ धनक्षयं वामे दक्षिणे तु ६५धनागमम्।
पृष्ठे धनागमं ६६विद्यान्नासिकायां पतिक्षयम् ॥ ४० ॥
इति वृषचक्रम् ॥
५५. धमं धर्मदिनं – In D
५६. शुभनः – In A
५७. हस्ते – In B
५८. पादयोः पश्चात्पुच्छे– In ABCD
५९. प्रष्ठे – In A
६०. धिष्मानि – In A
६१. नाशिकायां – In A
६२. मस्तिके – In A
६३. रुद्धशं – In A
रुद्धासं – In D, E
६४. चाधपाद – In A
श्वाग्रपाद – In D, E
६५. धनागमः – In B C, D, E
६६. विद्यानाशिकायां – In A
विंध्यात्रासिकायां – In D, E