वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 44, कुल 296 में से
संदर्भ में पढ़ें8 वास्तुमण्डनम्
⁴¹रवावेक⁴²द्विषट्शुद्धाश्चन्द्रेत्वष्टैक⁴³पञ्चमाः।
⁴⁴वेदसप्ताष्टमा भौमे बुधेऽष्टत्रिरसोन्मिताः ।। २० ।।
गुरौ ⁴⁵द्विपञ्चमुनयः शुक्रेष्टैकषडब्धयः।
शनौ त्रिपञ्चसप्ताष्टः दिवाष्टांशाः शुभावहाः ।। २१ ।।
सर्वकार्ये बुधैर्ग्राह्यं सदा चान्द्रमसं बलम्।
यस्माच्छतगुणं तेन विना ⁴⁶कार्यं न सिध्यति ।। २२ ।।
⁴⁷दशैकादशषट् त्र्येकसप्तमः पक्षयोर्द्वयोः।
चन्द्रमाः ⁴⁸शोभनः प्रोक्तः शुक्ले पञ्चनवद्विगः ।। २३ ।।
क्षीणः कृष्णदशम्यूर्ध्वं दशाहां चन्द्रमास्तदा।
तारया फलदः सोऽपि त्रिपञ्चाद्रिविहीनया ।। २४ ।।
हिमांशोर्द्वादशावस्था राशौ राशौ स्वव⁴⁹त्फलाः।
प्रवासाद्याक्रमेणैव मेषादिषु यथाक्रमम् ।। २५ ।।
प्रवासनाशिनीमृत्युर्जयाहास्यारतिस्तथा।
क्रीडिता ⁵⁰निद्रिता भुक्ता ज्वरिता कम्पिता ⁵¹स्थिता ।। २६ ।।
४१. रैवेक - In A
४२. E writes wordings and numerals
४३. मँचमा - In A
४४. वेद ४ ७ ८ रसो-६
४५. द्वि-२ पञ्च-५ ष्टै-८ क-१ षड्-६ व्ध-४ त्रि-३ पञ्च-५ सप्ता-७ ष्ट-८ ....ष्टांशाः- ८ - note in D, E
४६. कार्ये न सिद्ध्यते - In A
४७. गोचरपरत्वं विषयम्, दश-१० एकादश-११, षट्-६, त्र्ये-३ क-१, षट्-६, त्र्येक-३, १, सप्तमः-७ notes
in - DE
४८. शोभनः प्रक्ताः - In A, B, C
४९. फलाम् - In A
५०. निद्रेता - In A
५१. स्विता - In D