वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 38, कुल 296 में से
संदर्भ में पढ़ेंश्रीगणेशाय नमः ।
वास्तुमण्डनम्
प्रथमोऽध्यायः
[मिश्रकाध्यायः]
स्रष्टारं जगतामीशमनेकाश्चर्यरूपिणम्।
पालकं १सर्वसत्त्वानां वन्दे शक्तिमयं शिवम् ।।१।।
वास्तुवे२दोदधेः कश्चित्सारमादाय मण्डनः।
बालानामवबोधाय तनुते वास्तुमण्डनम् ।।२।।
शस्ते मासे सिते पक्षे ३अतीते चोत्तरायणे।
चन्द्रताराबले ४भर्तुः सुलग्ने च ५शुभे दिने ।।३।।
पुरःप्रासादगेहानां वाप्याः कूप६तडागयोः।
आराममठ७वास्तूनां प्रारम्भः सद्भिरिष्यते ।।४।।
नन्दाभद्राजयारिक्ता८पूर्णाः ९प्रतिपदादिकाः।
षष्ठ्या१०द्येकादशी११सर्वास्तिथयः पञ्चधा मता ।।५।।
१. सर्वा-in A
२. देदेधो-in A
३. आतीक्षे-in A अतीत इत्यनेन श्रावणमार्गयो र्ग्रहणमपि शब्दात् चकारेणोत्तरायणस्याचैत्रस्य त्यागः सूचितः ।
Marginal note in Ms. A.
४. कर्तु-in D, E
५. सुभे-in A
६. तटाक-in B
७. वास्तुनां-in A, B
८. पूर्वर्णा-in D, E
९. प्रदि-in B
१०. द्यो-in A
११. पूर्वा-in A