वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 244, कुल 296 में से
संदर्भ में पढ़ें२०८ वास्तुमण्डनम्
सौम्यायने दिने शुद्धे रिक्ता भौमार्कवर्जिते ।
रोहिण्यां ३१शतभे पुष्ये चित्रास्वात्युत्तराम्गे ॥८७॥
धनिष्ठापौष्णमैत्रेषु प्रवेशः शुभदो गृहे ।
प्रवेशे सूर्य३२सद्मानि स्ततो वेदेषु तूद्वसम् ॥८८॥
चतुर्थोऽर्थोऽब्धिषु श्रेयश्चतुर्थ कलहोऽन्वहम् ।
युगेषु गर्भनाशः स्यात् त्रिषु वासश्चिरं भवेत् ॥८९॥
सुखं कलशचक्रे स्यान्त्रिषु भेषु प्रवेशने ।
शुभे निमित्ते शकुने स्थिरे लग्ने स्थिरांशके ॥९०॥
३३मूर्त्तादुपचये स्वीये राशौ लग्ने विधोर्बले ।
सौम्यै स्त्रिकोणकेन्द्रस्थैः केन्द्राष्टान्त्यं विना परैः ॥९१॥
त्रिषडायगतैर्वा तैः प्रवेशः शुभदो गृहे ।
माङ्गल्यैरङ्कुरैर्दीपैः स्रग्भिः कदलिभिर्युते ॥९२॥
अश्वत्थ३४चूत३५पत्राद्ये सकन्यातोरणे गृहे ।
वासयित्वा दिने पूर्वे ब्राह्मणान्सुरभीर्वृषान् ॥९३॥
तत्र होमं जपं कुर्यात् स्वाध्यायं स्वस्तिवाचनम् ।
तगरागरुकुष्ठाग्रा निशाभिस्तत्प्रलेपयेत् ॥९४॥
चन्दनादैर्भुवं सिक्त्वा निशायामधिवासनम् ।
गृहे पूर्वोत्तरे सूर्यदशाष्टकरमण्डपे ॥९५॥
३१. श्रवणे in A
३२. भेद्दानि in BC
३३. मूर्त्तावुपचये in A
३४. कृत in C
३५. पत्राये in CD पत्रथि in B