सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 236, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 236

200 वास्तुमण्डनम्
$^{१८}$व्यासे दशाङ्कवस्वंशहीनं $^{१९}$दैर्घ्यार्धमुन्नतम् ।
व्यासे शरांशे वा सप्तभागे भद्रं त्रिभागिकम् ॥५३ ॥
षडशीत्योदये भक्ते तत्र भिट्टं युगांशकम् ।
जाड्यंकुम्भं तु सप्तांशं कन्दमंशेन कारयेत् ॥५४ ॥
कणपालीं तु वेदांशां [शी] द्व्यंशमन्तरपत्रकम् ।
कर्णे द्विभागिकं कुर्याद् ग्रासपट्टी युगांशकम् ॥५५ ॥
गजा: शिवैर्हया नन्दैर्नराः सप्तभिरंशकैः ।
वेदी शुक्रे रसैः छाद्यं तिथिभिर्मत्तवारणम् ॥५६
विधेयास्तु नरा वेद्या एकांशेन विनिर्गताः ।
द्वाभ्यां हयास्त्रिभिर्नागा ग्रासपट्टीयुगांशकैः ॥५७ ॥
ततः कर्णो द्विभागेन कन्दो ग्रासवती समः ।
कन्दान्षडंशैः कणकं कन्दाच्च खुरकं शिवैः ॥५८ ॥
$^{२०}$भिट्टमेकांशकं तस्माच्चतुस्तम्भं सतोरणम् ।
समाडं घण्टाकलशं ज्येष्ठं स्तम्भैर्विनापि वा ॥५९ ॥
गजाश्वोनं तत्र सिंहैर्युतं तत्कीर्त्तिवर्धनम् ।
ज्येष्ठं गजहयैर्हीनं तोरणाढ्यं सुखासनम् ॥६० ॥
अथ गवाक्षः ।
गवाक्षो लुम्बिकाहीनस्त्रिपताकः स केवलः ।
द्विलुम्बिकः स्यादुभयो र्नन्द्यावर्त्तश्चतुर्युगः ॥६१ ॥
१८. ब्यासै/ब्यासं in ACDE
१९. दैर्ध्यार्थ in B C, दैर्ध्याश्च in DE
२०. एकहस्ते तु प्रासादे भिट्टं वेदाङ्गुलं स्मृतम्
एकतः पञ्चहस्तान्तं हस्तेचैकैकमङ्गुलम् अ पृ ch १२३ v १९