वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 232, कुल 296 में से
संदर्भ में पढ़ें196 वास्तुमण्डनम्
एतांस्तु राजप्रासादान् गवाक्षछाद्यजालकैः ।
सिंहघण्टासंवरणैः सदण्डकलसध्वजैः ॥३५ ॥
सिंहकर्णकपोतालीकपिशीर्षैर्विभूषयेत् ॥३६ ॥
अथ सभा ।
क्षेत्रे षोडशभक्ते तु मध्यं स्याच्चतुरंशकम् ।
बाह्य एकांशकोऽलिन्दः सभा नन्देति सा मता ॥३७॥
भद्रा द्विभागभद्राढ्या चतुर्भद्रैर्युता जया ।
द्विद्व्यलिन्दा चतुर्दिक्षु पूर्णा भद्रैर्युता मता ॥३८॥
क्षेत्रे नवांशे तु कलास्तम्भैर्दिव्या सभा मता ।
भद्रैश्चतुर्भिः सा यक्षी त्र्यंशद्व्यंशैस्तु रत्नजा ॥३९॥
उत्पलांशं प्रतिभद्रैर्भूषयेत्ताः सुतोरणैः ।
निर्यूहमदला१२लूपवितानाढ्यैः सुरूपकैः ॥४०॥
नक्रैः करिहरिव्यालशाल१३भञ्जीगणादिभिः ॥४१॥
अथ मण्डपाः ।
स्तम्भान्तरं तु सार्धं त्रिहस्तात्ससकरावधिः ।
एक द्वि-त्रि-चतुः पञ्चभागे भित्त्यन्तरे कृते ॥४२॥
तदेकभाग आयामो विस्तारादधिको भवेत् ।
सार्धत्रिहस्तात्सप्तान्तं मण्डपस्योदयो मतः ॥४३॥
षण्मात्रात्करपर्यन्तं १४मण्डपे स्तम्भविस्तरः ॥४४॥
१२. लूमा in BD
१३. स्तम्भ in B, D
१४. मंडरूपेकोभविस्तरः in B