वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 228, कुल 296 में से
संदर्भ में पढ़ें192 वास्तुमण्डनम्
दक्षिणे पश्चिमे हीनशालं सूर्पं तु दोषदम् ।
लाङ्गलं गणिकादीनां सूर्पमुग्रोपजीविनाम् ॥१७ ॥
लाङ्गले चैव सूर्पे च पृथक्शालासु सर्वदा ।
शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ॥१८ ॥
८द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ।
द्वारगोपुरमियेवं पञ्चभेदं हि गोपुरम् ॥१९ ॥
९अथ श्रीधरादिप्रासादाः ॥
एकभागश्चतुःस्तम्भश्चतुर्द्वारः सजालकः ।
छाद्यघण्टायुतो माडशोभितःश्रीधरो मतः ॥२० ॥
पञ्चयुग्मकरे क्षेत्रे सार्धत्रिंशद्विभाजिते ।
मध्ये नवपदं कार्यं भागार्धं भित्तिकाद्वयम् ॥२१ ॥
मध्यं तु षोडशस्तम्भं स माडं पञ्चभूमिकम् ।
भद्रं सार्धं द्विभूमं स्याच्चतुःस्तम्भं च भागिकम् ॥२२ ॥
चतुर्दिक्षुश्चतुर्द्वारः प्रतापवर्धनः शुभः ।
तत्र त्र्यंशायतं भद्रं मुखभद्रं च भागतः ॥२३ ॥
प्रतिभद्रं दशस्तम्भाः षट्शरा मध्यबाह्यगाः ।
भद्रे माडं द्विभूम्योर्ध्वे गृहे पञ्चतलोर्ध्वतः ॥२४ ॥
८. Similar verse in Mayamatam ch 24 v.11
९. Mss DE write following verses :-
श्रीधरश्चैव प्रासादः प्रतापवर्द्धनः परः ।
लक्ष्मीनिवाससंज्ञश्च श्रीनिवासश्चतुर्थकः ॥
क्षोणिभूषणनामानो पृथ्वीजयश्च षष्टमः ।
षट्ष्वेतेषु च प्रासादे श्रेष्ठः स्यादुत्तरोत्तरः ॥