वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 224, कुल 296 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः
[प्रकीर्णकाध्यायः]
गृहप्रकाराः
शाला तु शुद्धा सम्बद्धा संयुता च परिभ्रमाः ॥
छन्दभिन्ना प्रतिभिन्ना सम्पुटा च प्रतिक्रमाः ॥१ ॥
अलिन्दरहिता शाला शुद्धोक्ता केवला बुधैः ।
अग्रालिन्देन सहिता सम्बद्धा स्याद्दशान्तकम् ॥२ ॥
अलिन्दवेष्टिता बाह्ये शालाश्रेणिस्तु संयुताः ।
पृथगैकैकशालाया अलिन्दश्चान्तरे यदा ॥३ ॥
परिभ्रमा तदा ज्ञेया सर्वशान्तिकरी नृणाम् ।
छन्दभिन्नापवरके फलकेभित्तिकान्तरे ॥४ ॥
शालामध्ये तु षड्दारौ प्रतिभिन्ना सदोत्तमा ।
भित्तिमध्ये यदालिन्दास्तथा बाह्ये च सम्पुटा ॥५ ॥
पृथक्शालाग्र कपिलाद्यलिन्दाग्रे प्रतिक्रमा ।
गृहमाला गृहनाभिः गृहसंघट्ट एव च ॥६ ॥
गृहाणकश्च विज्ञेयं गृहभेदचतुष्टयम् ।
गृहमाला गृहैः कुक्षौ पृष्ठेऽग्रे पंक्तितः स्थितैः ॥७ ॥
दिग्विदिक्ष्वग्रतः पृष्ठे कुक्षौ संघट्ट ईरितः ।
नानाकारापवरकैः सालिन्दैर्गृहनाभिका ॥८ ॥