सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 218, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 218

182 वास्तुमण्डनम्
भग्नासनगतैर्यद्वा २६आसन्दीस्थैश्च भुज्यते ।
यत्रोपघातवत्किञ्चिद्भक्ष्यं पेयमथापि वा ॥७२ ॥
पंक्तिभेदो वृथापाकः पाकभेदः सदाकलिः ॥७३ ॥
आभ्युक्षणं च संध्यायां यत्र कण्टकिनो द्रुमाः ।
भार्या पुनर्भूवल्मीकं यत्र निष्पातवल्लरी ॥७४ ॥
मुसलोलूखले स्त्रीणामास्या ( ? ) तद्वदुदुम्बरे ।
२७मन्त्रस्यावस्करे शस्त्रः पक्वा पक्वान्नलङ्घनम् ॥७५ ॥
स्थालीपिधाने वा दर्व्यास्तलेनाग्निसमर्पणम् ।
उच्चैर्वदन्ति वा रात्रौ नीचैर्ज्वलति वानलः ॥७६ ॥
पितॄनभिवन्दत्येवं पुत्रभार्यास्तथा पतीन् ।
यत्र धान्यं विप्रकीर्णं काकमूषिकभोजनम् ॥७७ ॥
अपावृतं पयस्त्विष्टे उच्छिष्टैः स्पृश्यते घृतम् ।
बालानां प्रेक्षमाणानां वृद्धा भक्ष्यं च भुञ्जते ॥ ७८ ॥
पाचयन्त्यात्मनोऽर्थेऽन्नं वृथैवं मांसभक्षणः ।
उत्सूरशायिनो यत्र पुरुषाश्च प्रागे निशाः ॥७९ ॥
आश्रमस्थान्विधर्मस्थाः प्रद्विषन्ति परस्परम् ।
परस्वा २८दानुरुचयो विपण्यव्यवहारिणः ॥८० ॥
अशुश्रूषुर्गुरोः शिष्यो यत्र शिष्यसखागुरुः ।
शास्तिप्रेष्यांश्च भर्तारं गुरूणां परतो वधुः ॥८१ ॥
कृतघ्ना नास्तिकाः पापा निर्मर्यादा हतः त्विषः ।
अभक्ष्यभक्षिणो यस्मिन्नाचाररहिता नराः ॥८२ ॥
२६. आदिस्यैश्च तु in B, C, D, E
२७. मन्त्रश्चाव in B, C, D, E
२८. दान्नरु in A