सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 216, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 216

180 वास्तुमण्डनम्
द्वारे च जलनिःस्रावं नैव कुर्याद्विचक्षणः ।
निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम् ॥६२ ॥
वामावर्त्तं च न शुभं द्वारमग्रतरं गृहे ।
स्तम्भं द्वारं च भित्तिं च विपरीतं न कारयेत् ॥६३ ॥
कटुकण्टकि दुर्गन्धिः गुह्यकाद्याश्रयान्द्रुमान् ।
न धारयेत् समीपस्थान्पुरप्रासादवेश्मनाम् ॥६४ ॥
२४शालासु भिन्नशालासु सन्धिकर्म न कारयेत् ।
देवतास्थापनं पिण्डशालासु न विधीयते ॥६५ ॥
अन्योन्यसन्धिबद्धं च शिखा कीलस्य वेधनम् ।
धर्मार्थकामसौख्यानां विनाशं नित्यमादिशेत् ॥६६ ॥
अज्ञैः सन्तापवद्भिर्वा परद्रव्यैश्च निर्मितम् ।
त्वरितं २५पूर्णतां नीतं स्थपतिद्वयकारितम् ॥६७ ॥
विनष्टवास्तुसञ्जातद्रव्यैरपि विनिर्मितम् ।
अतृप्तवास्तुदेवं यद्गर्भन्यासवर्जितम् ॥६८ ॥
अक्रमेण कृतं वापि वास्तु तद्याति शून्यताम् ।
अनुवंशं न भुञ्जीत न शयीत कदाचन ॥६९ ॥
भुञ्जानस्यार्थनाशस्याच्छयानस्य न निवृत्तिः ।
यत्र भुक्तं यथास्थानं पात्रधान्याम्बरादिकम् ॥७० ॥
भग्नभाण्डगतं चान्नं मुखवातोपसाधितम् ।
रजस्वला श्वा न दृष्टं सन्ध्ययोर्वा विदिङ्मुखम् ॥७१ ॥
२४. Similar verse in Mayamatam ch 27 v 73 cd 74 ab
२५. पूर्णतानान्तं in A