सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 212, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 212

176 वास्तुमण्डनम्
भोजः ॥
यद्द्विशालं त्रिशालं वा चतुःशालमथापि वा ।
अलिन्दरहितं वेश्म तदनिष्टफलप्रदम् ॥४५ ॥
ग्रन्थान्तरे ॥
पुरतः पृष्ठतः पार्श्वे यदि वाऽलिन्दवर्जिता ।
न शस्यते शाला देवागारे तु शस्यते ॥४६ ॥
न देवधूर्त्तसचिवःचत्वाराणां समीपतः ।
कारयेद्भवनं प्राज्ञो दुःखशोक १९भयं ततः ॥४७ ॥
तथा च ।
सुरवैरिनृपामात्यचौरपाषण्डपापिनाम् ।
चत्वारां त्यज धूर्त्तानां समीपे दुःखदं गृहम् ॥४८ ॥
न कुर्यादर्हतः पृष्ठे अग्रतः शिवसूर्ययोः ।
पार्श्वयो र्ब्रह्मविष्णोश्च गृहं चण्डयाः समन्ततः ॥४९ ॥
शिवसूर्यजिनादीनामन्तरे न शुभं गृहम् ।
मार्गश्चैको यदा गच्छेदुभयोर्गृह२० पार्श्वयोः ॥५० ॥
मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ।
गृहपृष्ठं समालोक्य प्रवेशो न शुभङ्करः ॥५१ ॥
मार्गान्तरे त्वादिभूमिः समभित्त्या न दूषणम् ॥ ५२ ॥
मत्स्यमते ।
स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा ।
दिङ्मूढे कुलनाशः स्यान्न च सम्बद्धयेद्गृहम् ॥५३ ॥
१९. फलं in A
२०. पृष्ठयो in B