सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 210, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 210

174 वास्तुमण्डनम्
त्यक्त श्रेण्यूर्ध्वमूलस्थस्तम्भं स्तम्भविवर्जितम् ।
गृहं हीनाधिकं स्तम्भं विषमस्थं तुलातलम् ॥३६॥
आदि१५पदानुसारेण १६न्युनाधिकायुतं बहिः ।
भिन्नं प्राग्भुविमुखाभिद्वारै रंविकरानिलैः ॥३७॥
मुखे नतं हीनमध्यं १७पट्टानुगजलप्लवम् ।
भिन्नशालं मानहीनं दुष्पदं प्रविभाजितम् ॥३८॥
विकृतं च गृहं भर्तुरनिष्टफलदायकम् ।
मूलगृहात्समीपस्थं कुर्यान्नोच्चं १८न चाधिकम् ॥३९॥
यत्स्यान्मुखविनिष्क्रान्तं चलितं तत्प्रकीर्तितम् ।
वलितं पृष्ठनिष्क्रान्तं दिङ्‌मूढं भ्रान्तमुच्यते ॥४० ।।
विसूत्रं कर्णहीनं स्यात्फलमेषां प्रचक्षते ।
चलिते चलति स्थानं बलिते विग्रहो भवेत् ॥४१॥
भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ।
भर्तुस्तुल्याभिधानं च गृहं दूरात्परित्यजेत् ॥४२॥
सर्वदोषकरी ज्ञेया गर्भे चन्द्रावलोकनी ।
मुखाद्वित्तविनाशाय कामोच्छित्यै गवाक्षकः ॥४३॥
द्वौ स्तम्भौ क्षणमध्ये वा दद्याद्गर्भं न पीडयेत् ।
एकोऽलिन्दो न कर्तव्यो वामतः पृष्ठतस्तथा ॥४४॥
१५. पट्टा in A
१६. न्यूनाधिक्य in B, D, E
१७. पदा in B, C, D, E
१८. नवा in B, C, D, E