वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 208, कुल 296 में से
संदर्भ में पढ़ें172 वास्तुमण्डनम्
भोजः ॥
द्रव्यं द्रव्याधिकं हन्ति कुलमायामतोऽधिकम् ।
उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥२६ ॥
कर्णशाला यदा लग्ना आग्नेयां दिशिमाश्रिताम् ।
अग्निदं नाम तद्वास्तु कुरुतेऽग्निभयं फलम् ॥२७ ॥
नैर्ऋत्ये बाह्यतो लग्ना नैर्ऋतं व्याधिमृत्युकृत् ।
११वायव्ये शालिका लग्ना वायव्यं वायुभीतिदम् ॥२८ ॥
ईशाने बाह्यतो लग्ना दैविकं देवदोषकृत् ।
दिशायां विदिशायां वा वास्तुवेधविशोधनम् ॥२९ ॥
जीर्णे नीचानां नीचमेवेष्टं श्रेष्ठानां श्रेष्ठमिष्यते ।
नवतरे वापि वेधदोषं विवर्जयेत् ।
श्रेष्ठमानं निकृष्टानां सर्वथा न प्रयोजयेत् ॥३० ।।
अधोभूमिक्रियायुक्तिः स्यादूर्ध्वोर्ध्वतलं प्रति ।३१ ॥
विपरीते विपत्तिः स्यादिति शास्त्रार्थनिश्चयः ॥
कुर्याद्ब्रह्मपदं न्यस्तो भार १२पट्टः कुलक्षयम् ॥३२ ॥
ब्रह्मस्थलोर्ध्वगद्रव्यसन्धानं विपदां पदम् ।
ब्रह्मस्थानस्थितः स्तम्भः स्वामिनस्तु विनाशनम् ॥३३ ॥
तुलादीन्युपरि १३द्रव्याण्यत्र दोषो न विद्यते ।
गर्भाधानञ्च क्रमणं स्वभित्तिं मुखवासके ॥३४ ॥
१४शिलास्तम्भतलं कुंड्यं नृणां वासे न कारयेत् ।
अन्योन्यद्रव्यविद्धं च हीनमित्युत्तमाङ्गकम् ॥३५ ॥
११. व्यायव्ये A, B, D
१२. प्रद in A
१३. द्रव्याणामत्र in D द्रव्याणां यत्र E
१४. Similar veres are found in Mayamatam ch 27 v 95