वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 206, कुल 296 में से
संदर्भ में पढ़ें170 वास्तुमण्डनम्
क्षणमध्ये न दातव्या ५न चैते विषमाः शुभाः ।
६प्राग्भूमेरूर्ध्वभूमिं च विस्तारे वोदयेऽधिकाम् ॥१७॥
७संलग्नान्यासनं कुम्भी स्तम्भो भरणाशीर्षके ।
पट्टश्च तन्त्रिके मानिन ८कुर्यात्सर्ववेश्मसु ॥१८॥
अल्पलेपं बहुलेपं समसन्धिः शिरोगुरूः ।
सशल्यं पादहीनं च वास्तु शीघ्रं विनश्यति ॥१९॥
अन्यवास्तुचितं द्रव्यं न युञ्जादन्यवास्तुनि ।
प्रासादे न भवेत्पूजा गेहे क्रीडन्ति राक्षसाः ॥२०॥
मयः ॥
विनष्टवास्तुसंजातं द्रव्यं सर्वविपत्करम् ॥
तस्मात्सर्वप्रयत्नेन शुद्धद्रव्यं ९प्रगृह्यताम् ॥२१॥
अन्यपृष्ठे यदा चान्यत्प्रासादं मन्दिरं पुरम् ।
खादकं नाम तद्वास्तु परस्परविरोधकृत् ॥२२॥
कुक्षिद्वारं गृहे वापि यत्र स्यात्सुरसद्मनि ।
विभ्रमं नाम तद्वास्तु भ्रामयेत्तत्पतिं गृहात् ॥२३॥
कुक्षिभागे गृहं चान्यत्कुक्षिदन्त विरोधकृत् ।
अग्रोन्नतं न तन्मध्ये १०उद्धतं हन्ति सन्ततिम् ॥२४॥
अधिकं विस्तरे कर्णे पञ्चहस्ताधिकोच्छ्रयम् ।
यद्बहुद्रव्यकाष्ठाढ्यं न भवेच्छाश्वतं गृहम् ॥२५॥
५. न वैते in B, D, E,
६. प्राग्भूमंमेरूभूमिं in B
७. संलग्राभ्यासनं in A, B, D, E
८. कुर्याद्र्णवेश्मसु in A
९. विधीयताम् in B
१०. उद्धतं हते in A उद्धृतं in D उद्धृतं in E