सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 204, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 204

168 वास्तुमण्डनम्
मयः ॥
गृहे स्तम्भः शुभो वृत्तः षडष्टास्र कलास्रकः ।
शिला देवालये ग्राह्या द्विजावनिपयोरपि ॥८॥
पाषण्डिनां च कर्त्तव्या न कार्या वैश्यशूद्रयोः ।
क्रियते यदि मोहेन धर्मकामार्थनाशकृत् ॥९॥
तथा च ॥
इतिहासपुराणोक्तं वृत्तान्तं प्रतिरूपकम् ।
निन्दितं च गृहे नेष्टं शस्तं देवकुले च यत् ॥१०॥
करालं भीषणं रौद्रमशस्तं दुष्टमेव च ।
गृध्रकङ्ककपोतादि कपिसंग्रामभीषणम् ॥११॥
वर्जयेद्गृहचित्रेषु श्रेयस्तत्र न विद्यते ॥१२॥
भोजः ॥
यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च ।
भीषणानि च यानि स्युर्न ³कुर्यात्तानि ॥१३॥
नग्नं तपस्वीलीलां च मायादीनि न योजयेत् ।
प्रेताः पिशाचाः रक्षांसि क्रव्यादा मृगपक्षिणः ॥१४॥
मृगर्क्ष व्याघ्रमार्जारवराहद्वीपिजम्बुकाः ।
तरक्षुखरकंकोष्ट्रप्रमुखा वा निशाचराः ॥१५॥
गृहे न कार्या ⁴वाद्यादौ व्याधिबन्धक्षयावहाः ।
नागदन्ततुलास्तम्भभित्तिमुखा गवाक्षकाः ॥१६॥
२. वल्लवम् in B
३. वेश्मनि in B, C, D, E,
४. वाटादौ। वायादौ in B, D, E