वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 200, कुल 296 में से
संदर्भ में पढ़ें164 वास्तुमण्डनम्
कालनेत्रं विनेत्रं लक्ष्मीधरं श्रियः पतिः ।
महाजयं जयाख्यं चाष्टादशं नामवत्फलम् ॥११३॥
यथा युग्मोद्भवा भेदाः स्युर्द्विशालत्रिशालयोः ।
तथा युक्त्या विधातव्याश्चतुःशालगृहेष्वपि ॥११४॥
मत्स्यपुराणे
सौम्यशालाविहीनं यत्त्रिशालं धन्यं हि तत् ।
क्षेमवृद्धिकरं नृणां सर्वव्याधिभयापहम् ॥११५॥
शालया पूर्वया हीनं ⁴७सुक्षेत्रमिति विश्रुतम्।
धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् ॥११६॥
चुल्ली तु याम्यया हीनं त्रिशालं चैव [क] शालया ।
कुलक्षयकरं नृणां सर्वव्याधिभयावहम् ॥११७॥
हीनं पश्चिमया यच्च पक्षघ्नं नाम विश्रुतम् ।
मित्रबन्धुसुतान् हन्ति तथा सर्वभयङ्करम् ॥११८॥
इति त्रिशालानि।
अथ चतुःशालानि ॥
प्रस्तारेऽष्टगुरूद्भूते सुनाभादीनि नामतः ।
चतुःशालगृहाणि स्युः षट्पञ्चाशं शतद्वयम् ॥११९॥
इति श्रीसूत्रधारमण्डनविरचिते ⁴८वास्तुशास्त्रे
वास्तुमण्डन शालादिगृहलक्षणोऽध्यायः षष्ठः ॥ श्लोकाः ॥११९॥
४७ B, C, D, E omit V 116 bcd, and v 117a
४८ वास्तु मण्डने वास्तुशास्त्र in BCDE