वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 190, कुल 296 में से
संदर्भ में पढ़ें154 वास्तुमण्डनम्
हस्तिनी क्रमगे द्वारे इदं युग्मगृहाष्टकम् ॥ ६७ ॥
एतान्येवान्यसंज्ञाभिर्दिग्भेदान्नामपर्यये ।
गजं भीमं पराक्रमं जयन्तं भासुरं तथा ॥ ६८ ॥
२४वशिष्ठं च समुद्रं महिषीपृष्ठसम्भवात् ।
सुनाभं वर्तकं सौम्यं चन्द्रं तेजश्च दीपकम् ॥ ६९ ॥
कुलोद्योतं सुनेत्रं च गावीपृष्ठोद्भवानि हि ।
पाशुपतं महाकालं सुतेजस्तेजवर्द्धनम् ॥ ७० ॥
२५वाशवं दशभूतानां रुद्रतेजः समुद्भवम् ।
छागलीपृष्ठजातानि गृहान्येतानि निर्दिशेत् ॥ ७१ ॥
इति युग्मगृहद्वात्रिंशद्भेदलक्षणम्।
द्विपञ्चाशद्विशालानां लक्षणं वक्ष्यते क्रमात् ।
सिद्धयर्थं यमसूर्यं च दण्डाख्यं वातसंज्ञकम् ॥ ७२ ॥
चुल्लिकाचप्रमुखादि द्विशालानि प्रचक्षते ।
अनेकभेदभिन्नानि २६लघुप्रस्तारयोगतः ॥ ७३ ॥
मुषाभेदं क्रमैस्तानि भिन्नाभिन्नक्रमेण च ।
तथा निलयकरणं मुषालिन्द सुमार्गतः ॥ ७४ ॥
प्राग्ग्रीवादिविधानेन द्विशालानि २७च पर्ययात् ।
यथासम्भवमेतानि कथयामि समासतः ॥ ७५ ॥
निर्वाहस्तत्र मुषानामनिर्वाहश्च नामतः ।
छन्दतो गुणतो रूपादशुभानि शुभानि च ॥ ७६ ॥
२४. बसिष्टं in A
२५. वासनं in B,C,D,E
२६. अलिन्द प्रस्तार in D,E.
२७. विपर्ययात् in A.P