वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 188, कुल 296 में से
संदर्भ में पढ़ें152 वास्तुमण्डनम्
अथ द्विशालानि।
१९हस्तिनी महिषी गावी छागली च यथाक्रमम्।
युग्मानि हंस विमलं संज्ञायाष्टाष्ट निर्दिशेत् ॥ ६० ॥
द्विहंसं च द्वि २०चक्राह्वं द्विसारसमथापि वा।
द्वि कोकिलमिति प्रोक्तं हस्तिन्यादि क्रमेण तु ॥ ६१ ॥
चतुरस्रं समं कृत्वा त्रिपुटे नवकोष्ठकम्।
मध्यकोष्ठपदं त्यक्त्वा शालायुग्मानि चिन्तयेत् ॥ ६२ ॥
दक्षिणस्यां २१तदाग्रेय्यां हस्तिन्युत्तरदिङ्मुखाम्।
पितृवारुणसंयोगान्महिषी पूर्वतो मुखा ॥ ६३ ॥
दक्षिणाभिमुखा गावी सोमे रोगे च संस्थिता।
वरुणाभिमुखा शस्ता ऐन्द्रे २२रोगे च छागली ॥ ६४ ॥
श्रीधरं च मुखालिन्दे याम्याग्रस्थे जयावहम्।
श्रीजयं प्रदक्षिणास्थे मुखयुग्मे तु कामदम् ॥ ६५ ॥
याम्याग्रमुखतोऽलिन्दे जयन्तं नाम शोभनम्।
प्रदक्षिणेऽलिन्दयुग्मे २३विशालमिति निर्दिशेत् ॥ ६६ ॥
अग्रे तृतीयालिन्दे तु जायते सोमसम्भवम्।
१९. We find similar verses in A.P ch 93,94
२०. चक्रं च, in D
२१. तथा-in A
२२. रुद्रे च लांगली in B,C,D,E
२३. विलास in A