वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 184, कुल 296 में से
संदर्भ में पढ़ें148 वास्तुमण्डनम्
ध्रुवादिमध्ये षड्दारु सुन्दरादीनि षोडश ॥ ४४ ॥
सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम्।
सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥ ४५ ॥
उद्योतं भीषणं शून्यमजितं कुलनन्दनम् ॥ ४६ ॥
इति सुन्दरादीनि ॥
पूर्वालिन्द १४युतोऽष्टेषु पुनः षड्दारुके सति।
हंसं सुलक्षणं सौम्यं हयं भावुकमुत्तमम् ॥ ४७ ॥
रुचिरं सन्ततं क्षेममाक्षेपमुच्छ्रितं वृषम्।
उच्छत्रं व्ययमानन्दं सुनन्दं चेति षोडश ॥ ४८ ॥
इति हंसादीनि ॥
ध्रुवादिमध्येऽपवर्कोऽलङ्कृतादीनि षोडश।
अलङ्कृतमलङ्कारं रमणं १५पूर्वमीश्वरम् ॥ ४९ ॥
पुण्यं सगर्भं कलशं दुर्गतं १६रक्तमीप्सितम्।
भद्रकं वञ्चितं दीनं विभवं कामदं तथा ॥ ५० ॥
इत्यलङ्कृतादीनि।
एतेषु चापवर्कस्य मध्ये षड्दारुके सति।
प्रभवं भावितं रुक्मं तिलकं क्रीडनं मुखम् ॥ ५१ ॥
यशोदं कुमुदं कालं भासुरं भूषणं तथा।
वसुन्धरं धान्यहरं कुपितं चित्तवृद्धिदम् ॥
कुलोदयं च विज्ञेयं गुणाभिधानं शाश्वतम् ॥५२ ॥
१४. युतष्बेषु in A
१५. पूर्णम् in A
१६. रिक्तम् in A