वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 182, कुल 296 में से
संदर्भ में पढ़ें146 वास्तुमण्डनम्
लोकशास्त्रविरुद्धानि ९नामानि परिवर्जयेत्।
दशरुद्रार्कसूर्यैश्च १०गुरुभिर्लघुकल्पना ॥ ३५ ॥
एकद्वित्रिचतुःशाले क्रमेणोक्ता स्वयम्भुवा।
अधिकान्याद्यरूपाणि प्रस्तारस्य परित्यजेत् ॥ ३६ ॥
यद्विश्वकर्मणो वाक्यं भेदैर्भिन्नास्तु षोडश।
प्रस्तारस्य त्रयो भेदाः सूचिता विश्वकर्मणा ॥ ३७ ॥
गृहाग्रेऽलिन्दबाहुल्यात् पूर्वरूपाण्यतस्त्यजेत्।
एको भेदो गृहोत्पत्तेः सहस्रादि द्वितीयकः ॥ ३८ ॥
एकैकस्य तथैवाष्टाविति भेदास्त्रयो मताः।
धान्याद्यष्टौ समा११न्यग्रे पुन११र्लघुयुतानि च ॥ ३९ ॥
तेषामलिन्दसंयोगादेकैकस्याष्टकं भवेत् ॥ ४० ॥
अथ एक शालानि ॥
ध्रुवं धान्यं जयं नन्दं खरं कान्तं १२मनोहरम्।
सुमुखं दुर्मुखं क्रूरं १३सुपक्षं धनदं क्षयम् ॥ ४१ ॥
आक्रन्दं विपुलं चैव विजयं नामवत्फलम्।
खरं च दुर्मुखं क्रूरं क्षयमाक्रन्दकं त्यजेत् ॥ ४२ ॥
इति ध्रुवादीनि ॥
धान्याद्येकैकान्तरेऽष्टमुखालिन्दयुतानि चेत्।
तदा रम्यं श्रीधरं च मुदितं वर्धमानकम् ॥ ४३ ॥
करालं च सुनाभं च ध्वाक्षं समृद्धिमित्यपि।
इति रम्यादीनि ॥
९. नानापि in B. C, D, E
१०. प्रस्तृतैलदिकल्पना in A
११. न्य ग्रै तु न° in A
१२. मनोरमम् in A
१३. विपक्षं, in A