वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 178, कुल 296 में से
संदर्भ में पढ़ें142 वास्तुमण्डनम्
इष्टरूपे लघून्पूर्वमन्ते तु विलिखेद्गुरून् ।
पूर्ववत्प्रस्तारे तावद्यावद्रूपविपर्ययम् ॥ १७ ॥
लघोः पृष्ठे गुरून्दद्याच्छेषांस्तस्माल्लघून्यसेत् ।
पूर्वरूपे तु यावन्तोलास्तावन्तोऽपरेष्वपि ॥ १८ ॥
खण्डप्रस्तार इत्येषपताकाछन्सूचकः ।
लघुक्रियाङ्गसंघात पृथगुपायदर्शितः ॥ १९ ॥
इति खण्डप्रस्तारः।
लघुस्थाने गृहमुखदालिन्दं सृष्टितो न्यसेत् ।
तत्पर्यायाः क्षणे मुखाःपदेऽलिन्दे लघुस्तथा ॥ २० ॥
चतुर्गुरूणां प्रस्तारे एकशालानि षोडश ।
ध्रुवादीनि गृहाणि स्युस्तेभ्यो वेदोत्तरं शतम् ॥ २१ ॥
प्रस्तारो रूपभेदो स्याद्गृहाणि षोडशैव हि ।
तेषु मन्वङ्गदिग्विश्वपञ्चमं तु परित्यजेत् ॥ २२ ॥
तेभ्यः षोडशतश्चैकशालानि सयुगांशतम् ।
एकैकस्य सहस्रं तु पुनरष्टौ तथैकतः ॥ २३ ॥
द्वापञ्चाशद्द्विशालानामेकैकस्य क्रमेण च ।
५द्विसहस्रमिता वृद्धिः पुनरष्टौ तथैकतः ॥ २४ ॥
द्वासप्ततिस्त्रिशालानि त्रीणि त्रीणि क्रमात्ततः ।
सहस्राणि भवन्त्येवं तथैवाष्टाष्ट चैकतः ॥ २५ ॥
५. Comp A.P ch 93. V 22-23