सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 174, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 174

षष्ठोऽध्यायः
[शालादि गृहलक्षणम्]
ध्रुवादीनि प्रवक्ष्यामि वासाय पुरवासिनाम्।
शस्तानि निन्दितान्येषां भवन्ति भवनानि च ॥१ ॥
अलिन्दा द्वित्रिवेदान्तशाले गेहे ध्रुवादिवत्।
मुखे द्वि १अधिका कार्या मण्डपस्य च वृद्धये ॥२ ॥
शालामध्ये द्विषट्दारु २एकं कुर्याद्विनापि तम्।
मध्येऽपवरकं ३वापि फलकैर्दृढकाष्ठजैः ॥३ ॥
छन्दास्तु षड्जात्युत्पन्ना भेदैर्भिन्ना द्विरष्टभिः।
तैरुक्तं क्रमरूपाद्यै गृहसंख्या ह्यनेकधा ॥ ४ ॥
खण्डपाण्डुवाजिमयतृणपर्णसुपट्टकैः।
उदितः षड्विधः छन्दः प्रयोज्यो गृहकर्मणि ॥ ५ ॥
पट्टछन्दे यथा भेदाः शालालिन्दादिका मताः।
विपरीता तृणछन्दे षोडशैव प्रकीर्त्तिताः ॥ ६ ॥
हीनोदयाः पाण्डुसंज्ञा वाजिनस्तूच्छ्रयेऽधिकाः।
फलकान्ते चतुर्हस्तः शेषछन्देषु ४चोच्छ्रयः ॥ ७ ॥
१. त्र्यधिका - in B
२. एवं - in A
३. चापि - in A
४. वोच्छ्रयः - in D.E