सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 168, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 168

132 वास्तुमण्डनम्
वीक्षः ।
वामाङ्गे वस्त्रशस्यार्थं देवार्चाभेषजालयम् ।
दक्षिणे दीप३नयानतोयोच्छिष्टपदं न्यसेत् ॥८॥
अथ राजगृहविन्यासः ॥
पुरादौ त्रिचतुर्थांशे कारयेत् राजमन्दिरम् ।
पश्चिमे सौम्यतो वाऽपि तत्तु दुर्गेषु भूवशात् ॥९॥
अपराजिते ॥
एकद्वित्रिसहस्रैस्तु हस्तैः राजगृहं त्रिधा ।
तुङ्गंराजगृहं रम्यं मन्दिरोद्यानदीर्घिकाः ॥१०॥
त्रिप्राकारं सपरिखं स्याच्चतुर्गोपुरं वरम् ।
पूर्वास्यं दक्षिणास्यं वा नोदक् प्रत्यग्दिशामुखम् ॥११॥
एकाशीति पदे क्षेत्रे मध्ये ब्रह्मपदेऽकणम् ।
मण्डपं वा न्यसेद्द्रव्य४माये द्वारं गृहं सभा ॥१२॥
विवस्वत्यभिषेकार्थं मित्रे मुख्यगृहं न्यसेत् ।
पृथ्‌वीधरे सभामापे भाण्डागारं प्रकारयेत् ॥१३॥
आपवत्सेऽम्बरागारं सावित्रे भोजनास्पदम् ।
कुर्यात्सवितरि श्रेष्ठं सव्यं जनमहानसम् ॥१४॥
इन्द्रे राजाम्बिकागेहमिन्द्रराज ५उपस्करम् ।
रुद्र६व्यये ७महिष्याश्च राजस्त्रीणां गृहा अपि ॥१५॥
३. मंयान - in A
४. Here आय denotes the place for Aryamâ
५. पुरस्करम् in BCDE
६. द्वये in A
७. महिषश्व in A