सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 166, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 166

पञ्चमोऽध्यायः
[गृहविन्यासः लक्षणसमुच्चयः]
यस्यां दिशि पुरो द्वारं तां प्राचीं परिकल्पयेत्।
न्यास ईशादितः कार्यो भोजने शयनेऽन्यथा ॥१ ॥
विवेकविलासेऽपि।
पूर्वादिदिग्विनिर्देशो गृहे द्वार१व्यपेक्षया।
भास्करोदयदिक्पूर्वा न विज्ञेया यथा श्रुते ॥२ ॥
पूर्वे द्वारं गृहे कुर्यादास्थानं पृथु चाङ्गनम्।
अग्नौ महानसं धेनुं महिषी व्यञ्जनालयम् ॥३ ॥
याम्ये जलगृहं नृत्यशालां भोजनमन्दिरम्।
नैर्ऋत्ये स्नानसूतानां देहचिन्तापदं बहिः ॥४ ॥
पश्चिमे दीर्घिकास्थानं वायौ स्नेहान्नयोगृहम्।
सौम्ये धनाङ्गनोद्यानस्थानमीशे सुरालयम् ॥५ ॥
मध्ये मुख्यगृहं स्वामि२वाञ्छया शयनास्पदम्।
पश्चिमास्या गृहे देवा स्थाप्या दक्षिणतोमुखः ॥६ ॥
याम्योत्तरास्या गावः स्युर्न प्राक् पश्चिमतोमुखाः ॥७ ॥
१. अपेक्षया in DE
२. वांछना in A