वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 162, कुल 296 में से
संदर्भ में पढ़ें126 वास्तुमण्डनम्
शिलीन्ध्रः शाल्मली सर्पमार शम्याकशाबराः ।
देवयोग्या इमे वृक्षा मानुषेष्वस्तनर्थदाः ॥ १२१ ॥
तस्मात्सर्वप्रयत्नेन न गृह्णीयान्नरालये ।
न वृक्षानयनं कार्यं धनिष्ठादिपञ्चके ॥१२२ ॥
यदेकद्वित्रिजातीयैः भूरुहैः भवनं कृतम् ।
तत्तनोति श्रियं नित्यं बहुभिर्बहुभीतिदम् ॥१२३ ॥
मतान्तरे ॥
एकैव शस्ता श्रीपर्णी शिंशपा सरलोऽर्जुनः ।
हारिद्रकस्तिन्दुकश्च पद्मकः पनसतथा ॥१२४ ॥
चन्दनः सुरदारुश्च योज्या नैतेऽन्यसंयुताः ॥१२५ ॥
अथ सन्धिविधिः-
³७मूले मूलं न युञ्जियादग्रेणाग्रं च दारुणः ।
न पुराणैः नवमथो मूलं याम्येऽपरे शुभम् ॥१२६ ॥
ऊर्ध्वद्रव्येष्वधोमूलं पार्श्वद्रव्येषु मध्यतः ।
शायिते स्यादधोमूलमग्रमूर्ध्वं प्रयोजयेत् ॥१२७ ॥
चतुष्ट्यां नैर्ऋते मूले कुर्यादग्रद्वयं शिवे ।
न सन्धिः स्तम्भयोर्मध्ये ब्रह्मस्थानेऽपि तं त्यजेत् ॥१२८ ॥
एकस्मिन् पंक्तिसन्धाने सन्धिरेकाकृतिर्भवेत् ।
उपर्युपरि चैवं स्याद्विपरीते विपत्करम् ॥१२९ ॥
37. Similar verses are found in the Mayamata Part I ch. 17 v. 9 onward.