वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 158, कुल 296 में से
संदर्भ में पढ़ें122 वास्तुमण्डनम्
शिवमस्तु महीपुत्रा देवताश्च सगुह्यकाः।
कर्मैतत्साधयिष्यामि क्रियतां २८देवपर्ययः ॥१०२ ॥
एवमुक्त्वा द्रुमं नत्वा कुठारमभिमन्त्रयेत् ॥१०३ ॥
मन्त्रः
ॐ नमो रुद्राय देवाय २९पिङ्गलाय महात्मने।
विश्वदेवाय विश्वरूपाय ३०विश्वकर्मणे नमो नमः३० ॥१०४॥
मूलं हस्तं विहायोर्ध्वं छित्वा तत्राभिलक्षयेत् ॥१०५ ॥
वारिश्रावः शुभो नेष्टः क्षीराज्यस्र मधुश्रवः।
पूर्वे सौम्येऽथवेशाने पतितः शुभदो द्रुमः ॥१०६ ॥
गृहाद्यर्थं त्यजेद्वृक्षं चैत्यप्रासादपार्श्वगम्।
भूतावासं श्मशानस्थं सकीट३१व्रणकोटरम् ॥१०७॥
सवल्मीकं स्वयं शुष्कं सनीडं चान्त्यजैः श्रितम्।
दवालीढं बहुशिरं सरित्सङ्गम३२सम्भवम् ॥१०८ ॥
सक्षीरकण्टकं भग्नं पथि सर्वजनैः श्रितम्।
३३संसेवितं खगमृगैर्वातेन तडिदाहतम् ॥१०९ ॥
वापीकूपतडागादि वास्तुजातं रुजायुतम्।
आम्रं बिभीतकं चिञ्चां नीपं श्लेष्मातकं धवम् ॥११० ॥
२८. वो विपर्ययःin BCDE
२९. Ms A omits v104 from पिङ्गलाय to विश्वदेवाय
३०. नमस्ते विश्वकर्मणे in D
३१. घृण-in
३२. संभवं in B
३३. संसेविकं in B