वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 152, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 152116 वास्तुमण्डनम्
116 वास्तुमण्डनम्
उदयाद्द्विगुणां भूमिं त्यक्त्वद्य वेधो न जायते ॥ ७६ ॥
अथ गृहोदयः ॥
गृहव्यासकलांशस्तु युगैः सार्धं त्रिभिस्त्रिभिः ।
करैः समेत पट्टाध उदयस्त्रिविधो गृहे ॥ ७७ ॥
त्रिधा स पुनरैककस्तत्र ज्येष्ठोदयोऽङ्गुलाः ।
विंशत्यष्टादशकलाङ्गुलैः षण्णवतिर्युताः ॥ ७८ ॥
धिष्ण्यप्रकृतितिथ्यंशैर्युगाशीत्यङ्गुला युताः ।
मन्दिराणां यथायोग्यमुदयो मध्यतस्त्रिधा ॥ ७९ ॥
१९भैकविंशतितिथ्यंशैर्युता मात्रा द्विसप्ततिः ।
उदयः कन्यसे त्रेधा योजनीयो यथोचितम् ॥ ८० ॥
पञ्चभक्ते गृहोत्सेधे एकभागेन वेदिका ।
मत्तवारणमेकांशं तृतीयांशे न तं शुभम् ॥ ८१ ॥
गृहोदयेऽष्टभिर्भक्ते कुम्भिका भागमानतः ।
षडंशो भरणं शीर्षं चार्धार्धभागिकम् ॥ ८२ ॥
उर्ध्वे सतन्त्रिकः पट्टो भागोऽर्धा विस्तरे तुला ।
उच्चौ भागतृतीयांशे व्यासतुल्यं तुलान्तरम् ॥ ८३ ॥
राजगृहादौ
अष्टभक्ते गृहोत्सेधे भागेनैकेन कुम्भिका ।
सार्धवेदांशकः स्तम्भ उछालः (च्छायः ?) सार्धभागिकः ॥ ८४ ॥
१९. नैक-in A