सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 144, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 144

108 वास्तुमण्डनम्
गृहे मध्योन्नताभूमिर्निम्नाऽपीष्टा सुरालये ।
गजस्कन्धा समोत्सेधा राजवेश्मादिभूमिकाः ॥ ३७ ॥
ताम्रपात्रस्थितैर्धान्यं मृत्कन्दौषधिधातुभिः ।
११सरत्नैः स्वस्वचिह्नाद्यैर्गर्भन्यासो गृहादिषु ॥ ३८ ॥
ब्राह्ममैत्रेद्रवादित्यपुष्यस्वात्युत्तरे१२व च ।
पित्रे पौष्णे श्रुतौ १३गर्भः सद्युक्ते क्षे स्थिरोदये ॥ ३९ ॥
गर्भस्थानं गृहेषिन्द्रे भल्लाटे वा गृहक्षते ।
पुष्पदन्तेऽथवा द्वारदक्षिणस्तम्भकादधः ॥ ४० ॥
सगर्भं सर्वसम्पत्त्यै विगर्भं सर्वनाशनम् ।
तस्मात् सर्वप्रयत्नेन गर्भं सम्यग्विनिक्षिपेत् ॥४१ ॥
इति गर्भन्यासः ॥
प्रतिहस्तं शिलाबद्धा भूमिर्युगयवानता ।
इष्टका भित्तिविस्तारो गृहव्यासः कलांशतः ॥४२ ॥
पादोनो मध्यमः प्रोक्तो उत्तमार्धेन कन्यसः ।
मन्वङ्गुलादेः केप्याऽहुस्त्रिंशन्मात्रावधिं तु तान् ॥४३ ॥
इति भित्तिः ॥
नागदन्तौ तु शालायां द्वौ द्वौ वामे चं दक्षिणे ।
एकशालार्कभागेन तस्मान्यदर्धेऽन्तरे परः ॥४४ ॥
द्वारोर्ध्वाङ्गसमा शस्ता न गृहाभिमुखाः शुभाः ।
दैवे दीपालयो वामे दक्षिणाङ्गे नृणां गृहे ॥४५ ॥
११. सरलैः in BCDE
१२. करे in A
१३. गर्त in BCDE