वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 142, कुल 296 में से
संदर्भ में पढ़ें106 वास्तुमण्डनम्
शालायाः विस्तरात्सार्धा त्रिभागेनांशतोऽपि वा ।
पट्टशाला भवेत् श्रेष्ठा व्यासे कैश्चित्समा मता ॥ २७ ॥
पट्टशाला प्रकर्त्तव्या गूढजालकसंयुता ।
प्रकाशा भद्रयुक्ता वाऽथवा पट्टत्रयानना ॥ २८ ॥
गूढाग्रे मण्डपं कुर्यान्मध्यआच्छादनं विना ।
पट्टशालाश्चतुर्दिक्षु आद्यालिन्दानुसारतः ॥ २९ ॥
⁷वेदिकासनपट्टैश्च मत्तवारणतोरणैः ।
भद्रजालक ⁸उत्साद्यैः कर्तव्या द्विभूमिकाः ॥ ३० ॥
मण्डपाग्रे मुखद्वारं तस्योपरि सुशोभनम् ।
द्वित्रिभूमं गृहं कुर्यान्माड⁹मुखा गवाक्षकैः ॥ ३१ ॥
सर्वक्षेत्रे प्रकर्त्तव्या गवां गायादिकल्पना ।
आय एव पृथक् मध्यक्षेत्रे भित्यन्तरे भवेत् ॥ ३२ ॥
भाण्डागारोऽष्टषष्ट्यन्तं समः सार्धान्तमायतः ।
महानसं तु लोकानां चतुर्हस्तं नवान्तकम् ॥ ३३ ॥
धनधान्यालयं कुर्यात्तिथ्यन्तं पञ्चहस्ततः ॥ ३४ ॥
मयः ॥
अन्नालयं ह्यतिनतमप्युच्चं स्याङ्गनालयम् ।
तथैव दक्षिणागारमतिनीचं सुखालयम् ॥ ३५ ॥
इति गृहनिवेशः ॥
१०सृष्ट्या प्रवेश उत्सङ्गः प्रतिकायोऽपि सव्यतः ।
वामावर्तो हीनबाहुः पूर्णबाहुस्तु सन्मुखः ॥ ३६ ॥
७. वेदिका in B
८. सुधाद्यैः in A
९. मूषा in B
१०. Similar verbs are seen in A.P ch 83. V 11-12