वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 140, कुल 296 में से
संदर्भ में पढ़ें104 वास्तुमण्डनम्
राज्ञां द्विजानां ⁴वेद्वास्तं न कार्यं क्षत्रियादिषु।
एकशालादितो गेहं दशशालावधि स्मृतम् ॥ १९ ॥
वर्णानां वेदशालान्तं दिक्शालान्तं तु ⁵भूभृताम्।
शाला व्यासे चतुर्हस्तात्तस्मान्नखकरावधिः ॥ २० ॥
साष्टमांशा सपादा वा सार्धा वाप्यायता मता ॥ २१ ॥
अपराजिते ॥
विस्तरे विंशतिर्हस्ता द्विरष्टाष्टादशापि वा।
चतुर्हस्तोदये शाला रङ्गभूपलकान्तरे ॥ २२ ॥
⁶मयमते ॥
चतुर्हस्तादितः शाला व्यासे जिनकरावधिः।
सार्धान्तमायता न णां सुराणामधिकापि सा ॥ २३ ॥
इति।
शालां त्रिपञ्चसप्ताङ्कैर्विभागैः प्रविभाजयेत्।
एकद्वित्रियुगांशैस्तु समानोऽलिन्द इष्यते ॥ २४ ॥
तथा च।
त्रिहस्तात् षट्करं यावल्लघोर्मानमुदाहृतम्।
श्रीविश्वकर्मणा तस्मात्प्रकर्तव्यं यथोचितम् ॥ २५ ॥
प्रस्तारेण समुत्पन्नं तद्गेहं स्वामिनोरपि।
प्रीतिः परस्परं योज्या मण्डपाद्यं ततो बहिः ॥ २६ ॥
४. वेदास्त्रं in BCDE
५. भूभुजाम् in B
६. यममते in B