वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 130, कुल 296 में से
संदर्भ में पढ़ें94 वास्तुमण्डनम्
पृष्ठछिद्रेऽग्निसंयोगाद्गोलाद्यं याति दूरतः ।
पुरप्राकारगेहादि ग्रामारामविमर्दनम् ॥ ७४ ॥
रिपूणां ते प्रकुर्वन्ति सैन्ये त्रासं च दारुणम् ।
राज्ञा जयकरा एते वह्नियन्त्रा अनेकशः ॥ ७५ ॥
विबुधैर्विहिताः पूज्याः पक्वान्नमदिरामिषैः ।
हव्यवाहनलीवांशी चर्मनद्धाद्विमुष्टिकाः ॥ ७६ ॥
दैर्घ्यं कार्यार्धदैर्घ्यस्य चतुर्थांशेन विस्तरा ।
ईषदार्द्रेण सूक्ष्मेण पूरयेदौषधेन ताम् ॥ ७७ ॥
कुट्टयित्वा मुहुस्तस्यारिक्तमेकांगुलं मुखम् ।
औषधार्धेन पृष्ठे स्याद्रन्ध्रं वह्नेर्यवप्रभम् ॥ ७८ ॥
एकद्वित्र्यङ्गुलैकं बां [वांशं ?]सरलामत्र तोलयेत् ।
सूर्योरुबुकसिंहस्य निर्वाणाङ्गारचूर्णकम् ॥ ७९ ॥
अग्रियन्त्रौषधार्थं तु गृहीतव्यं यथोदितम् ।
पञ्चषट्सप्तचाष्टौ वा भागाश्चेति शिलाजतः ॥ ८० ॥
गन्धस्यैकक्रमाच्चूर्णं सार्धं सार्धद्वियुग्मकम् ।
तद्भेषजस्य मार्गोऽयं भेदा अन्येऽप्यनेकशः ॥ ८१ ॥
वह्निसंयोगतस्तेषां दृश्यते बहुधा गतिः ।
गैरेयं द्विगुणं गन्धात्कुर्यात्तोयेन गोलिकाम् ॥ ८२ ॥
हव्यवाहा मुखे तारा वैरिणां पुरदाहकाः ॥ ८३ ॥
इति अग्रियन्त्रलक्षणम् ॥