वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 126, कुल 296 में से
संदर्भ में पढ़ें90 वास्तुमण्डनम्
स्तम्भास्तु षट्करा १०व्यासे दैर्घ्ये मूर्ध्नि त्रिहस्तकाः ।
ऊर्ध्वे द्विभागौ त्र्यंशोऽधस्तत्रोत्पलनिवेशनम् ॥ ५२ ॥
ऊर्ध्ववेल्लनिका तेन समापिण्डे युगाङ्गुलाः ।
दशाङ्गुलान्तरे चान्या कर्त्तव्या चक्रवेल्लनी ॥ ५३ ॥
चक्रवेल्लनिकामध्यादशीत्यङ्गुलनिर्गमा ।
चक्रमानं द्विहस्ता तु पादोन त्रिकरावधिः ॥ ५४ ॥
ऊर्ध्ववेल्लनिकाधस्तात्प्रान्ते लोहस्य कीलिका ।
दक्षे कलाया रक्षार्थं ततो बन्धविमोक्षणम् ॥ ५५ ॥
ज्योतिका रक्षकं मध्ये कारयेत्कीलकं पुनः ।
पार्श्वयोर्ध्ववेल्लन्यां तनिकाकर्षणाय च ॥ ५६ ॥
विनाभ्यासेन सर्वेषां केवलं निष्फलः श्रमः ।
तस्मादभ्यसतो लक्ष्यादखिलं प्राप्यते गुरोः ॥ ५७ ॥
वाहयेत्प्रथमं शून्यं द्वितीये निक्षिपेद्बलिम् ।
तृतीये माहिषं मुण्डं चतुर्थे गोलकं क्षिपेत् ॥ ५८ ॥
तत्र भैरवभैरव्योः पूजा कार्या सदा नृपैः ।
रक्तादिपुष्पैर्नैवेद्यैर्मद्यमांसै११र्जयार्थिभिः ॥ ५९ ॥
१२दैर्घ्ये मन्वङ्गुलं प्रोक्तं व्यासायामे षडङ्गुलम् ।
यन्त्रैर्हस्तमिते कैश्चित् कार्यं युक्त्या सुपञ्जरम् ॥