वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 122, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 122
86 वास्तुमण्डनम्
वृत्तं वृत्तायताष्टास्रे अष्टपत्रं यवाकृतिः ।
स्वस्तिकं पुरुषाकारं दुर्गमित्यादौ सौख्यदम् ॥ ३१ ॥
एक द्वि शकटाकारं त्रिकोणं रसकोणकम्।
वज्रत्रिशूलभुजगाकारं कर्णाधिकं त्यजेत् ॥ ३२ ॥
नगरं शोभितं कार्यं हट्टप्राकारगोपुरैः ।
प्रसादभवनोद्यानकीर्तिस्तम्भजलाशयैः ॥ ३३ ॥
पुरार्धेन भवेद्ग्रामो ग्रामार्धेन तु खेटकम्।
खेटकार्धेन कूटं स्यात्कूटार्धेन तु कर्वटम् ॥ ३४ ॥
पुरे ग्रामे क्रमान्मार्गाः खेटे कूटे च कर्वटे ।
कार्या सप्तदशाङ्केषु त्रिद्विसंख्या दिशं प्रति ॥ ३५ ॥
इति दुर्गनगरादिलक्षणम् ॥
दुर्गाणां रक्षणार्थाय यन्त्राः कार्या यथाविधिः ।
भवन्ति जयदा राज्ञां मद्य^६मांसादिपूजिताः ॥ ३६ ॥
देवास