सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 116, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 116

तृतीयोऽध्यायः
[दुर्गादिलक्षणम्]
बलिनाल्पबलेनापि दुर्गं कार्यं महीभुजा।
रक्षणार्थं हि लोकानां तस्मात्पुण्यं महत्तरम्॥ १ ॥
जलदेव¹गृहारामतीर्थदानव्रतादिभिः।
यत्पुण्यमाप्नुयाद्राजा दुर्गे दुर्गं करोति यः॥ २ ॥
अन्यवास्तुस्थितं भित्वा कुर्याद्दुर्गं दृढोन्नतम्।
तत्राखिलानामाधारोऽन्यथा वित्तायुषोः क्षयः॥ ३॥
सिंहोऽपि सर्वसत्त्वानां बलवान् गिरिगह्वरे।
स्थितिं कृत्वा जयत्याशु वैरिवर्गं सुदारुणम्॥ ४॥
गजानां तु सहस्रेण न च लक्षेण वाजिनाम्।
यत्कृत्यं साध्यते राज्ञां दुर्गेणैकेन सिध्यति॥ ५ ॥
शतमेकोऽपि संधत्ते प्राकारस्थो धनुर्धरः।
तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः॥ ६॥
शिलादिभिस्तु प्राकारो विशालः प्रोन्नतो दृढः।
शुद्धेष्टकाभिः कर्तव्यः परेषां दुर्गमो यथा॥ ७॥
प्राकारे कोष्ठका वृताः विद्याधर्यो युगास्रकाः।
तन्मध्ये बाहिका बाह्ये कपिशीर्षैरलङ्कृताः॥ ८ ॥
दशार्कमनुहस्तैश्च विद्याधर्योऽपि कोष्ठकाः।
तन्मध्ये बाहिका दैर्घ्ये ²त्रिगुणा कोष्ठतो भवेत्॥ ९॥
१. ग्रहा - In A
२. त्रिकोणा - In B, C, D, E