सामग्री पर जाएँ
सर्वकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 110, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 110

74 वास्तुमण्डनम्
३०सिंहस्याधिपतिः सूर्यश्चन्द्रमाः कर्कटाधिपः ।
मेषवृश्चिकयोर्भौमः कन्यामिथुनयोर्बुधः ॥ ६२ ॥
धनुर्मीनपति३१र्जीवः शुक्रो वृषतुलाधिपः ।
शनिर्मकरकुम्भेशः कन्या राहुगृहं भवेत् ॥ ६३ ॥
चन्द्रार्कभौमजीवाश्च शुक्रज्ञशनिराहवः ।
चत्वारोऽन्योन्यमित्राणि शत्रवस्ते परस्परम् ॥ ६४ ॥
रविमन्दे भवेद्वैरं तथैव कूजमन्दयोः ।
सोमस्य सूर्यपुत्रस्य महद्वैरं परस्परम् ॥ ६५ ॥
इति ग्रहमैत्री ॥
भवनस्योदयं क्षेत्रफलेन गणयेत्सुधीः ।
वसुभिर्विभजेच्छेषोऽधिपतिः ससमः शुभः ॥ ६६ ॥
यद्वा ३२व्ययाय संयोगे यदैक्यं वसुभिर्भजेत् ।
शेषस्त्वधिपतिः कैश्चिद्विषमः स भयावहः ॥ ६७ ॥
विकृतः कर्णकश्चैव धूम्रदो वितथेश्वरः ।
बिडालो दुन्दुभिश्चैव दन्तः कान्तोऽधिनायकाः ॥ ६८ ॥
इति अधिनायकाः ॥
फलमष्टगुणं कृत्वा षष्ट्या भक्तेऽवशिष्टकम् ।
पञ्चभिर्विभजेच्छेषं तत्वं स्यात्पार्थिवादिकम् ॥ ६९ ॥
पृथिव्यापोऽनलो वायुराकाशमिति पञ्चभिः ।
गृहस्यायुषि सम्पूर्णे विनाशो भवति ध्रुवम् ॥ ७० ॥
३०. Similar verses in Apārājita pṛchhā ch 65 v. 26.
३१. जीवि in B
३२. भयाम - in D, E