वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 108, कुल 296 में से
संदर्भ में पढ़ें72 वास्तुमण्डनम्
ईशानात्कृत्तिकादीनि सस सस प्रदक्षिणे ।
धिष्ण्यानि यत्र गेहर्क्षं ज्ञेयस्तत्रैव चन्द्रमाः ॥ ५२ ॥
अग्रतः स हरेदायुः पृष्ठतस्तु धनं हरेत् ।
वामदक्षिणतश्चन्द्रो धनधान्यकरो गृहे ॥ ५३ ॥
इति चन्द्रः ॥
प्रीतिस्तु षड्विधाः तासामुत्तमा समसप्तमी ।
तृतीयैकादशी वृद्धयै पुष्यै दशचतुर्थिका ॥ ५४ ॥
२७षड्वाष्टकम् त्रिकोणञ्च गृहं द्विद्वादशं त्यजेत् ।
मरणं कलहो हानिस्तस्मात्प्रीतित्रयं त्यजेत् ॥ ५५ ॥
राशेर्मैत्री हरेद्वैरं २८ग्रहजं ग्रहजा पुनः ।
मैत्री राशेर्विरुद्धत्वं नाडिवेधं त्यजेत्सदा ॥ ५६ ॥
विप्र-क्षत्रिय-विट्शूद्रा मीनाद्या राशयः क्रमात् ।
स्वामिनोऽधिकवर्णं हि गृहं सौख्यकरं न हि ॥ ५७ ॥
ब्राह्मणे सकला राज्ञि प्रशस्ता २९नवराशयः ।
षट् वैश्येऽथ त्रयः शूद्रे स्वामिराशेः क्रमोऽप्ययम् ॥ ५८ ॥
गृहस्थः गृहयोः स्वामिवैरं मैत्रीं विलोकयेत् ।
दुष्टे प्रीतिर्विलोकया सा सुप्रीतौ तां न चिन्तयेत् ॥ ५९ ॥
षष्ठिघ्नं भवनस्य र्क्षं पञ्चत्रितनुभिर्भजेत् ।
शेषे मेषादिको राशिः प्रोक्तः कैश्चिन्नवांशके (कैः ?) ॥ ६० ॥
अश्विन्याद्यं त्रिकं मेषे सिंहे ज्ञेयम् मघात्रयम् ।
मूलादित्रितयं चाये शेषाणि नवराशिषु ॥ ६१ ॥
इति राशिमैत्री ॥
२७. षट्का In B, D, E षद्वा In C
२८. गृहजं In A
२९. E gives note - ५ । ६ । ७ । ९ । १० । १२ । २ । ३ । ६ । २ । १० । ७ । ९ । ३ । ३ । ७ । १२