वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 106, कुल 296 में से
संदर्भ में पढ़ें70 वास्तुमण्डनम्
आयतुल्यं पिशाचः स्यादायाधिकस्तु राक्षसः ।
²³चिन्तात्मको व्ययः प्राज्ञैरष्टस्वायेषु वर्जितः ॥ ४३ ॥
शान्तोऽथ पौरः प्रद्योतः श्रियानन्दो मनोहरः ।
श्रीवत्सो विभवश्चैव ²⁴चिन्तात्मको व्ययाष्टकम् ॥ ४४ ॥
ध्वजे शान्तः शुभो गेहे नित्यं कल्याणकारकः ।
भोगपूजाबलिर्नृत्यगीतवाद्यं सुरालये ॥ ४५ ॥
इति ²⁵व्ययाः ॥
मूले व्ययान्विते वेश्म नामाक्षरविमिश्रिते ।
त्रिभिर्भक्ते भवेदंश शेष इन्द्रो यमो नृपः ॥ ४६ ॥
प्रासादप्रतिमालिङ्गे वेद्यामिन्द्रो ध्वजो हितः ।
सर्वत्र शोभनो राजा पुरराजगृहादिषु ॥ ४७ ॥
यमो मातृगणेशादि मद्यमांसादिविक्रये ।
भैरवे क्रूरदेवे च हितो मृत्युकरो गृहे ॥ ४८ ॥
इत्यंशकाः ॥
²⁶गणयेत्स्वामिनक्षत्रात् यावदृक्षं गृहस्य च ।
नवभिस्तु हरेद्भागं शेषा तारा प्रकीर्तिताः ॥ ४९ ॥
शान्ता मनोहरा क्रूरा विजया कलहावहा ।
पद्मिनी राक्षसी वीरा आनन्दा नवमी स्मृताः ॥ ५० ॥
तृतीया विपदं कुर्यात्पञ्चमी तेजसः क्षयम् ।
सप्तमी धननाशं च तेन तारात्रयं त्यजेत् ॥ ५१ ॥
इति तारा ॥
२३. चित्रा - in B
२४. चिन्तात्मेति - in B, C, D, E
२५. क्षेत्रफलम् in E
२६. Similar verses in Aparājitā pṛchhā ch 66 v 32-33