वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 86, कुल 106 में से
संदर्भ में पढ़ें७३
आवर्तयन्सदा युक्तः प्राणायामान्पुनः पुनः ।
आ लोमाग्रान्नखाग्राच्च तपस्तप्यतु उत्तमम् ॥ ५ ॥
निरोधाज्जायते वायुर्वायोरग्निर्हि जायते ।
तापेनापोथ जायन्ते ततोन्तः शुध्यते त्रिभिः ॥ ६ ॥
न तां तीव्रेण तपसा न स्वाध्यायैर्न चेज्यया ।
गतिं गन्तुं द्विजाः शक्ता योगात्संप्राप्नुवन्ति याम् ॥ ७ ॥
योगात्संप्राप्यते ज्ञानं योगो धर्मस्य लक्षणम् ।
योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् ॥ ८ ॥
प्रणवे नित्ययुक्तस्स्याद्व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥ ९ ॥
प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः ।
वाङ्मयं प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् ॥ १० ॥
एकाक्षरं परं ब्रह्म पावनं परमं स्मृतम् ॥ ११ ॥
सर्वेषामेव पापानां सङ्करे समुपस्थिते ।
अभ्यासो दशसाहस्रः सावित्र्याः शोधनं महत् ॥ १२ ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
स उच्यत इति ॥ १३ ॥
इति वासिष्ठधर्मशास्त्रे पञ्चविंशोध्यायः ॥ २५ ॥
प्राणायामान्धारयेत्त्रीन्यो यथाविध्यतन्द्रितः ।
अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १ ॥
5. आवर्तयेत् B. F. H. तपस्तप्यतमुत्तमं B. Bh. F. H. - तपस्तप्यातु
'उत्तमं Ban. ed. 7. चेष्टया F. H. 9. नित्ययुक्तस्य न भयं विद्यते B. Ban
ed. F. H. 10. प्रणवाद्यास्तपः E. 11. पावमानं परं स्मृतं B. F.