वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 72, कुल 106 में से
संदर्भ में पढ़ेंएनो राजानमृच्छति उत्सृजन्तं सकिल्विषम् ।
तं चेद्वा घातयेद्राजा हन्ति धर्मेण दुष्कृतमिति ॥ ४६ ॥
राज्ञामात्ययिके कार्ये सद्यः शौचं विधीयते ।
तथा नात्ययिके नित्यं काल एवात्र कारणमिति ॥ ४७ ॥
यमगीतं चात्र श्लोकमुदाहरन्ति ।
नाद्य दोषोस्ति राज्ञां वै व्रतिनां न च सत्रिणाम् ।
ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदेति ॥
हि ते सदेति ॥ ४८ ॥
इति वासिष्ठधर्मशास्त्रे एकोनविंशोध्यायः ॥ १९ ॥
अनभिसंधिकृते प्रायश्चित्तमपराधे ॥ १ ॥
अभिसंधिकृतेप्येके ॥ २ ॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यम इति ॥ ३ ॥
तत्र च सूर्याभ्युदितः सन्नहस्तिष्ठेत्सावित्रीं च जपेत् ॥ ४ ॥
एवं सूर्याभिनिर्मुक्तो रात्रावासीत् ॥ ५ ॥
कुनखी श्यावदन्तस्तु कृच्छ्रं द्वादशरात्रं चरेत् ॥ ६ ॥
परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत्
॥ ७ ॥
अथ परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्नि-
विशेत तां चैवोपयच्छेत् ॥ ८ ॥
46. तं चेद्घातयेत राजा राजधर्मेण दुष्यति F. H. ज्ञान्त B. 48. नाद्य E.
H. मन्त्रिणं E. H.
XX. 4. °अभ्युद्यितः B. Bh. E. H.