वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 67, कुल 106 में से
संदर्भ में पढ़ेंबलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ ७३ ॥
पाणिग्राहे मृते बाला केवलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हतीति ॥ ७४ ॥
प्रोषितपत्नी पञ्च वर्षाण्युपासीत ॥ ७५ ॥
ऊर्ध्वं पञ्चभ्यो वर्षेभ्यो भर्तुस्सकाशं गच्छेत् ॥ ७६ ॥
यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्त्ति-
तव्यं स्यात् ॥ ७७ ॥
एवं ब्राह्मणी पञ्च प्रजाताप्रजाता चत्वारि राजन्या प्रजाता
पञ्चाप्रजाता त्रीणि वैश्या प्रजाता चत्वार्यप्रजाता द्वे शूद्रा प्रजाता
त्रीण्यप्रजातैकम् ॥ ७८ ॥
अत ऊर्ध्वं समानार्थजन्मपिण्डोदकगोत्राणां पूर्वः पूर्वो गरीयान्
॥ ७९ ॥
न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ॥ ८० ॥
यस्य पूर्वेषां षण्णां न कश्चिद्वायादः स्यात्सपिण्डाः पुत्रस्थानीया
वा तस्य धनं विभजेरन् ॥ ८१ ॥
तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ॥ ८२ ॥
तयोरलाभे राजा हरेत् ॥ ८३ ॥
न तु ब्राह्मणस्य राजा हरेत् ॥ ८४ ॥
ब्रह्मस्वं तु विषं घोरम् ॥ ८५ ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ॥ ८६ ॥
- पाणिग्राहसूते E. 78. यत्प्रजाता instead of अप्रजाता E. H. 86.
°पौत्रिकं B. F. H.