वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 94, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ६५
ग्राहक है। फिर प्रयोक्ता अर्थ समझानेके लिए स्फोटरूप शब्दका जिस अर्थ में तादात्म्य
गृहीत करता है उस प्रकारको ध्वनि उसकी प्रतीतिके लिए करता है। उसी ध्वनिसे स्वरूपा-
वस्थित शब्द अभिव्यक्त होता है और शक्तिविषयक संस्कारके उद्बुद्ध हो जाने पर शाब्द-
बोध होता है। जैसे घटको मिट्टीका रूप माननेके बाद मिट्टीमें पटके अभिव्यक्ति की शक्ति
मानते हैं। वैसे शब्दमें बोधात्मक घटसे तादात्म्य ग्रहण होने पर बोधात्मक घटाभिव्यक्ति-
शक्ति स्वीकारते हैं। इस प्रकार जब बौद्ध-शब्दके ज्ञानके लिए ध्वनि उत्पन्न हुई तब बौद्ध
शब्दका ध्वनि निमित्त है और बौद्ध-शब्द ध्वनिका प्रकाशक है।
नन्वध्यासस्य सङ्केतस्तत्त्वे किम्मानमिति चेदुच्यते—'ओमित्येकाक्षरं ब्रह्म'
इत्यादि शास्त्रेषु, 'वृद्धिरादैच्' इत्यादौ व्याकरणे, 'कम्बुग्रीवादिमान् घटः' इत्यादौ
लोके, 'अमरा निर्जरा देवा' इत्यादौ कोशे च योऽयं शब्दः सोऽर्थः योऽर्थः स शब्दः
इत्येवमितरेतराध्यासरूपस्य सङ्केतस्य दर्शनमेवेति गृहाण। न च ओमित्येकाक्षरमि-
त्यादौ तत्तच्छब्दवाच्ये लक्षणेति न तेन शब्दार्थाध्याससिद्धिरिति वाच्यम्—लक्ष-
णायां मानाभावात्। अत एव ईदृशानाद्यभेदारोपेणैवागमिनो मन्त्रार्थयोरभेदेनो-
पासनामामनन्ति। मीमांसकाश्च मन्त्रमर्थी देवतामाचक्षते। ईदृश एव सङ्केतो मुख्यः।
क्वचित्तु भेदं परिकल्प्य अस्यार्थस्यायं वाचक इत्यपि कदाचित् सङ्केतः यथा पाणिनेः
'कर्मणि द्वितीया' 'उञः प्रगृह्यमित्यादिः ॥
तदिदं बौद्धं स्फोटाख्यं नित्यमक्रमं निरंशं शब्दतत्त्वम् अन्यवर्णप्रत्ययरूपव्यापा-
रेणाभिव्यक्तं परं प्रति प्रतिपिपादयिषया वक्तृभिरुच्यमानैः श्रोतृभिः श्रूयमाणैर्वर्णैरुत्परा-
गादनादिवाग्व्यवहारवासनामात्रमङ्गीकृत्य लोकबुद्ध्या परमार्थपदन्योऽन्याभेदेन सङ्केतेन
प्रतीयते न तु तदतिरिक्तरूपेण। यद्यपि लाक्षाद्युपाधेरपगमे स्फटिकः स्वच्छधवलोऽ-
नुभूयते उपाधिं विनापि प्रकाशात् अस्य तूपाधिव्यतिरेकेण प्रतीत्यभावान्न केवलस्य
प्रत्ययः यथा राहोश्चन्द्रव्यतिरेकेणेति ॥ ४७ ॥
नन्वेवं स्फोटो नाना स्यादित्याशङ्क्य औपाधिकं भेदमुपपादयन् बुद्धिस्थस्य
शब्दस्य स्वरूपमाह—
नादस्य क्रमजन्मत्वात् न पूर्वो नापरश्च स ।
अक्रमः क्रमरूपेण भेदवानिव जायते ॥ ४८ ॥
यद्यपि सः बुद्धिस्थः नादव्यङ्ग्यः स्फोटाख्यः शब्दः न पूर्वो नापरश्च चो हेतौ
यतः पूर्वापरीभावरहितः अतः अक्रमः तथापि नादस्य स्फोटाभिव्यञ्जकध्वनेः वैखर्याः
क्रमेण जन्म यस्य तादृशात् क्रमजन्मत्वात् ध्वनिकारणीभूतैः क्रमवद्भिः स्थानकरणा-
भिघातैः जायमानस्य ध्वनेरपि क्रमवत्त्वेन तद्गतेन क्रमरूपेण भेदवानिव सक्रमो
भिन्न इव जायते भवति भासते इति यावत् । न तु स्वतस्तस्य वास्तवः क्रमो भेद-
श्चास्ति नित्यत्वैकत्वाभ्यां विरोधात् । ततश्च घटध्वन्यभिव्यक्तस्फोटात् घटरूपार्थस्य
बोधः न तु पटरूपार्थस्य घटध्वन्यभिव्यक्तस्फोटे घटरूपार्थस्यैव तादात्म्येन तत्रैव
सङ्केतः स्वीकारादिति भावः ॥ ४८ ॥
१ व्या०